This page has not been fully proofread.

प्रो० वशिष्ठत्रिपाठी
"राष्ट्रपतिपुरस्कारेण सम्मानित:"
आचार्योऽध्यक्षचरश्च
 
न्यायवैशेषिकविभागे
 
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य
वाराणसीस्थस्य ।
 

 
शुभाशंसनम्
 
श्री
 
न्यायवैशेषिकशास्त्रादिग्रन्थान् मत्सन्निधौ सम्यगधीत्य तत्र
प्रतिपादितपारिभाषिकशब्दानां लक्षणं पर्य्यालोच्य श्रीलालबहादुरशास्त्री-
राष्ट्रियसंस्कृतविद्यापीठस्य न्यायविभागीयवरिष्ठप्राध्यापकेन मच्छिष्येण
श्रीमता विष्णुपदमहापात्रेण "न्यायपारिभाषिकशब्दावली" इति विरचितं
ग्रन्थरत्नमवलोक्य अतीवानन्दितोऽस्मि ।
 
"प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् ।
आश्रयः सर्वधर्माणां शश्वदान्वीक्षिकी मता ॥"
 
"काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम्" एतत्सर्वमभिलक्ष्य
निश्चप्रचं वक्तुं शक्यते यदस्ति सर्वेषु शास्त्रेषु न्यायशास्त्रस्य प्राधान्यम्।
तत्र शिष्येण विष्णुपदेन न केवलं न्यायवैशेषिकप्रतिपादितशब्दानां
विश्लेषणं कृतमपि तु व्याकरणशास्त्रप्रतिपादितकारकसमासाख्यात-
विभक्त्यादिपदानां न्यायसरण्या यादृशं पर्य्यालोचनं न्यायशास्त्रे विद्यते
तेषां शब्दानां लक्षणं सुनिपुणं विभाव्य निर्वचनं कृतम्। एवञ्च
न्यायशास्त्रस्य वैशिष्ट्यभूताः ये संसर्गपदार्थाः सन्ति तेषां संसर्गाणां
लक्षणनिर्देश पुरस्सरं व्यवस्थापनं कृतमस्ति ग्रन्थरत्ने ।
 
मन्ये एतद्ग्रन्थस्याध्ययनेन व्युत्पित्सूनां समेषां सहजतया प्रवेशो
भविष्यति न्यायशास्त्रे । यतः पारिभाषिकशब्दानां तत्त्वार्थज्ञानेनैव