This page has not been fully proofread.

प्रत्ययः
 
abi
 
सा
शिश
 
logrl. 9/20
 
पारिभाषिकीसंज्ञा
 
पञ्चमी
 
mastay
 
प्रथमा
 
:श्रीक
 
901152910
 
-
 
-
 
-
 
Suffix
 
न्यायपारिभाषिकशब्दावली 79
 
यादृशार्थकप्रकृतिनिपाताभ्यां भिन्नो यादृशा
शक्तिनिरूढलक्षणान्यतरात्मकप्रशस्तवृत्तिमान्
यादृशः शब्दः स तादृशार्थकप्रत्ययः । "यः स्वेतरस्य
यस्यार्थे स्वार्थस्यान्वयबोधने । यदपेक्षस्तयो पूर्वा
प्रकृतिः, प्रत्ययः परः ॥ (वाक्यप.) । यादृशार्थे
प्रकृत्यन्यो निपातान्यश्च वृत्तिमान् । स तादृशा
शब्दः स्यात्प्रत्ययोऽसौ चतुर्विधः ॥
इतरार्थानवच्छिन्ने स्थार्थे यो बोधनाक्षमः ।
तिर्थस्य निभाद्यन्यः स वा प्रत्यय उच्यते ॥
श. श. प्र. का. 9-10 ।
 
Current Noun
 
उभयावृत्तिधर्मावच्छिन्नसंकेतवती संज्ञा पारिभा-
षिकी आकाशडित्थादि । "उभयावृत्तिधर्मेण संज्ञा
स्यात् पारिभाषिकी ॥ यद्वाधुनिकसङ्केतशालि
स्यात्पारिभाषिकम्॥ श. श. प्र. का. 22-23 ।
यत्रार्थे यन्नामाऽऽधुनिकसंकेतवत्तदेव तत्र पारि-
भाषिकम्, यथा पित्रादिभिः पुत्रादौ संकेतितं चैत्रादि,
यथा वा शास्त्रकृद्भिः सिद्धयभावादौ पक्षतादि ॥
Fifth Case-ending
पतधात्वर्थतावच्छेदकरूपावच्छिन्नधर्मिकविभाग-
-
 
बोधानुकूलसुप्सजातीयत्वं पञ्चमीत्वम्। श. श.
प्र. वि. प्र. । अपादाने पञ्चमी - पा. सू. ।
First Case-ending
 
या विभक्तिस्तादात्म्यभिन्नस्वार्थधर्मिकप्रकृत्यर्थ-
बोधं प्रति न स्वरूपयोग्या सा प्रथमा । श. श. प्र.