This page has not been fully proofread.

i
 
न्यायपारिभाषिक शब्दावली 71
 
वच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नसंसर्गता-
कत्वमिति वा, साध्यतानिरूपितसंसर्गतावच्छेदक-
तात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगिता-
वच्छेदकरूपावच्छिन्नानुयोगिताकपर्याप्तिका-
वच्छेदकताकसंसर्गताकत्वमिति वा, स्वनिरूपित -
संसर्गतावच्छेदकताप्रतियोगितापर्याप्त्यनुयोगिता-
वच्छेदकत्वसम्बन्धेन साध्यतानिरूपित संसर्गता-
वच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनु-
योगितावच्छेदकरूपवृत्तित्वमिति वा, साध्यता-
निरूपितसंसर्गतावच्छेदकतान्यूनवारकपर्याप्ति-
निवेशप्रकारो ग्राह्यः।
 
निरूपकत्वसम्बन्धः - Determinantness relation
 
निरूपकत्वसम्बन्धेन प्रतियोगिताऽभावे, अधिक-
रणता आधेयतायां, प्रतियोगिता चावच्छेदके तिष्ठति,
यत अभावादयः प्रतियोगितानिरूपिकाः भवन्ति ।
व्या. प. मा. टी. भू. । निरूपकत्वसम्बन्धेनाभावे
प्रतियोगिता । सम्बन्धभासनम् का. 73 । निरूपकता
स्वरूपसम्बन्धविशेषः। सापेक्षधर्मयोः परस्परं
vagbalwonlu निरूप्यनिरूपकभातो भवति । यथा कार्यत्वकारण-
somfa hilnv 10 त्वयोः, अधिकरणताधेयत्वयोः, वाच्यत्ववाचक-
aghalwomlio त्वयोः । तत्र एकमन्येन निरूपितं भवति । यथा दण्डो
घटस्य कारणमित्यादौ घटनिष्ठकार्यतानिरूपकत्वं
दण्डनिष्ठकारणतायाम् । यथा वा भूतले घट इत्यादौ
भूतलनिष्ठाया आधारताया निरूपकत्वं घटनिष्ठा-
धेयत्वे । न्यायायनम् - पृ०- 28 ।
 
Determinableness Relation
 
निरूप्यत्वाख्ययोगेनाधेयता परिनिष्ठिता। अधि-
निरूप्यत्वसम्बन्धः