This page has been fully proofread once and needs a second look.

मकारे, शिवरूपेण अर्धमात्रायां शुकवत् स्थितः। एवं च व्याख्याकारस्य गभीरं
ज्ञानं, वैदग्ध्यं च अस्यां टीकायां पदे पदे आविर्भवति।
 
नटरूपधारिणः शङ्करस्य इदं स्तोत्रं चरणशृङ्गरहितम् इति विशेषीकृतम्।
चरणशब्दः अधस्तनमर्यादावाचकः शृङ्गशब्दश्च उपरितनमर्यादावाचकः यथा
गोमृगादिप्राणिषु। एकदा कमलासनः ब्रह्मा क्षीरार्णवशायी विष्णुश्च
स्वकीयश्रैष्ठ्याय परस्परं विवदमानौ यः शिवलिङ्ङ्गस्य पारं गच्छति सः श्रेष्ठः
इति समयं कृतवन्तौ। परं दृढप्रयत्नेनाऽपि ताभ्यां शिवस्य मर्यादा न
समासादिता। एतमेव शिवस्य अमर्यादत्वं चरणशृङ्गरहितः इति समासपदे
व्यज्यते। अन्यच्च, चरणशृङ्गरहित इति छन्दोनाम। तस्मिन् छन्दसि निबद्धं
स्तोत्रं चरणशृङ्गरहितम् इत्यपि समाधानं कर्तुं शक्यते। अस्य छन्दस:
व्याख्या, समन्वयश्च चरमश्लोकस्य व्याख्याने द्रष्टव्यः। विस्तरभयादत्र न
उद्ध्रियते।
 
दक्षिणप्रान्ते तमिलभाषिकेषु एतत् स्तोत्रम्-
 
"அடிமுடி காணாத நடராஜ ஸ்தோத்ரம்"
('अटि-मुटि-काणात-नटराजस्तोत्रम्')
 
इति विख्यातम्। 'अटि' इति चरणनाम, 'मुटि' इति शिरोनाम वा
शृङ्गनाम वा। 'काणात' शब्देन च अदृश्यमानत्वं व्यज्यते। एवं नटराजस्य
अदृश्यमाने ये चरणशृङ्गे ते अधिकृत्य विरचितम् इदं स्तोत्रम् इति सार्थः
अन्वयः। भारती-संस्कृत-विद्या-निकेतनस्य ग्रन्थमालायाः इदं चतुर्थं पुष्पम्।
नटराजस्य तस्मिन् विद्यमानत्वेन चिदम्बरक्षेत्रमिव विदुषां हृदयपद्मानां विकासं
विदधातु, ग्रन्थप्रकाशनप्रयासस्य सत्फलमिव विराजतु इति अस्मिन् अवसरे
प्रार्थ्यते।
 
डॉ. उषा भिसे
 
(अध्यक्षा, भारती-संस्कृत-विद्या-निकेतनम्)