This page has not been fully proofread.

मकारे, शिवरूपेण अर्धमात्रायां शुकवत् स्थितः । एवं च व्याख्याकारस्य गभीरं
ज्ञानं, वैदग्ध्यं च अस्यां टीकायां पदे पदे आविर्भवति ।
 
नटरूपधारिणः शङ्करस्य इदं स्तोत्रं चरणशृङ्गरहितम् इति विशेषीकृतम् ।
चरणशब्दः अधस्तनमर्यादावाचकः शृङ्गशब्दश्च उपरितनमर्यादावाचकः यथा
गोमृगादिप्राणिषु । एकदा कमलासनः ब्रह्मा क्षीरार्णवशायी विष्णुश्च
स्वकीयश्रैष्ठ्याय परस्परं विवदमानौ यः शिवलिङ्ङ्गस्य पारं गच्छति सः श्रेष्ठः
इति समयं कृतवन्तौ । परं दृढप्रयत्नेनाऽपि ताभ्यां शिवस्य मर्यादा न
समासादिता । एतमेव शिवस्य अमर्यादत्वं चरणशृङ्गरहितः इति समासपदे
व्यज्यते । अन्यच्च, चरणशृङ्गरहित इति छन्दोनाम । तस्मिन् छन्दसि निबद्धं
स्तोत्रं चरणशृङ्गरहितम् इत्यपि समाधानं कर्तुं शक्यते । अस्य छन्दस:
व्याख्या, समन्वयश्च चरमश्लोकस्य व्याख्याने द्रष्टव्यः । विस्तरभयादत्र न
उद्भियते ।
 
दक्षिणप्रान्ते तमिलभाषिकेषु एतत् स्तोत्रम् -
 
"அடிமுடி காணாத நடராஜ ஸ்தோத்ரம்"
('अटि-मुटि-काणात-नटराजस्तोत्रम्')
 
इति विख्यातम् । 'अटि' इति चरणनाम, 'मुटि' इति शिरोनाम वा
शृङ्गनाम वा । 'काणात' शब्देन च अदृश्यमानत्वं व्यज्यते । एवं नटराजस्य
अदृश्यमाने ये चरणशृङ्गे ते अधिकृत्य विरचितम् इदं स्तोत्रम् इति सार्थः
अन्वयः । भारती-संस्कृत-विद्या-निकेतनस्य ग्रन्थमालायाः इदं चतुर्थं पुष्पम् ।
नटराजस्य तस्मिन् विद्यमानत्वेन चिदम्बरक्षेत्रमिव विदुषां हृदयपद्मानां विकासं
विदधातु, ग्रन्थप्रकाशनप्रयासस्य सत्फलमिव विराजतु इति अस्मिन् अवसरे
प्रार्थ्यते ।
 
डॉ. उषा भिसे
 
(अध्यक्षा, भारती-संस्कृत विद्या निकेतनम्)