This page has been fully proofread once and needs a second look.

प्रस्तावना
 
नटराजः शिवः कैलासे नर्तनम् अवलम्ब्य आनन्दं जनयति। तस्य गणाः
अपि तस्मिन् निर्भराः भूत्वा समाधिसदृशं सुखम् अनुभवन्ति। नर्तनस्य
प्रयोजनान्तरम् अपि विद्यते। अखिलजगतः अवनं कर्तुं कैलासपतिः एतादृशम्
अनुपमं नर्तनम् आरभते। एवं च नर्तनस्य आशयःगभीरःवर्तते यस्य
प्रकटीकरणं शिवरूपस्य निरूपणेन चरितवर्णनेन च प्रस्तुते स्तोत्रे कृतम्।
स्तोत्रकर्तुः अपि एकः विशेषः लक्षणीयः। कवेः नाम एतस्मिन् काव्ये प्रथमे,
नवमे, दशमे च श्लोके इति त्रिवारं ग्रथितं दृश्यते। पतञ्जलिः शेषस्य
अवतारत्वेन प्रथितः। तेनैव पाणिनीयायाः अष्टाध्याय्याः भाष्यं लिखितम्।
एवं तस्य भाषाप्रभुत्वं स्फुटं भवति। शेषस्य अवताररूपेण अधिकारः,
व्याकरणपरिशीलनेन च अधिकारः इति तस्य अधिकारत्वेऽपि अतिशयः वर्तते।
अतः अर्थगौरवपूर्णमिदं काव्यं व्याख्यार्थं न सुलभम्। किन्तु व्याख्याकाराः
स्वामि-श्री-काशिकानन्द-स्वामिपादाः न केवलम् एकेन प्रकारेण निरूपणं
कुर्वन्ति किन्तु ब्रह्मपक्षम् आश्रित्य प्रकारान्तरेणाऽपि आशयं विशदीकुर्वन्ति।
ब्रह्मपक्षस्य आरम्भे तैः रचितः श्लोकः एवं वर्तते-
गम्भीरार्थं वचोजातं यन्महर्षेः पतञ्जलेः।
तत्प्रकारान्तरेणापि व्याचक्षे विदुषां मुदे॥
 
तथा च 'ब्रह्मपरा भवन्त्येते श्लोकाः' इत्यारभ्य विद्वन्मोदार्थं वैदग्ध्यप्रधानं
व्याख्यानं ते रचयन्ति। केवलम् एकम् उदाहरणम् अत्र पर्याप्तम्। नवमश्लोके
'अन्धकरिपुम्' इति पदं विद्यते। अन्धकदैत्यस्य रिपुः इति तस्य सरलार्थः।
ब्रह्मपक्षे व्याख्यानं कुर्वन्तः स्वामिचरणाः लिखन्ति 'अन्धयति जनान् अन्धकम्
अज्ञानं तस्य रिपुं नाशकम्'। तस्यैव श्लोके प्रणवपञ्जरशुकम् इति अतिगहनं
पदं वर्तते। तस्य विवरणं माण्डूक्योपनिषदम् आश्रित्य एवं कृतम्-परमात्मा
हि विश्ववैश्वानररूपेण अकारे, तैजसहिरण्यगर्भरूपेण उकारे, प्राज्ञेश्वररूपेण