This page has been fully proofread once and needs a second look.

प्रस्तावना
 

 
नटराजः शिवः कैलासे नर्तनम् अवलम्ब्य आनन्दं जनयति । तस्य गणाः

अपि तस्मिन् निर्भराः भूत्वा समाधिसदृशं सुखम् अनुभवन्ति । नर्तनस्य
। नर्तनस्य
प्रयोजनान्तरम् अपि विद्यते । अखिलजगतः अवनं कर्तुं कैलासपतिः एतादृशम्

अनुपमं नर्तनम् आरभते । एवं च नर्तनस्य आशयःगभीरःवर्तते यस्य

प्रकटीकरणं शिवरूपस्य निरूपणेन चरितवर्णनेन च प्रस्तुते स्तोत्रे कृतम्

स्तोत्रकर्तुः अपि एकः विशेषः लक्षणीयः । कवेः नाम एतस्मिन् काव्ये प्रथमे,

नवमे, दशमे च श्लोके इति त्रिवारं ग्रथितं दृश्यते । पतञ्जलिः शेषस्य

अवतारत्वेन प्रथितः । तेनैव पाणिनीयायाः अष्टाध्याय्याः भाष्यं लिखितम्

एवं तस्य भाषाप्रभुत्वं स्फुटं भवति । शेषस्य अवताररूपेण अधिकारः,

व्याकरणपरिशीलनेन च अधिकारः इति तस्य अधिकारत्वेऽपि अतिशयः वर्तते

अतः अर्थगौरवपूर्णमिदं काव्यं व्याख्यार्थं न सुलभम् । किन्तु व्याख्याकाराः

स्वामि-श्री- काशिकानन्द-स्वामिपादाः न केवलम् एकेन प्रकारेण निरूपणं

कुर्वन्ति किन्तु ब्रह्मपक्षम् आश्रित्य प्रकारान्तरेणाऽपि आशयं विशदीकुर्वन्ति।

ब्रह्मपक्षस्य आरम्भे तैः रचितः श्लोकः एवं वर्तते-

गम्भीरार्थं वचोजातं यन्महर्षेः पतञ्जलेः

तत्प्रकारान्तरेणापि व्याचक्षे विदुषां मुदे
 

 
तथा च 'ब्रह्मपरा भवन्त्येते श्लोकाः' इत्यारभ्य विद्वन्मोदार्थं वैदग्ध्यप्रधानं

व्याख्यानं ते रचयन्ति । केवलम् एकम् उदाहरणम् अत्र पर्याप्तम् । नवमश्लोके

'अन्धकरिपुम्' इति पदं विद्यते । अन्धकदैत्यस्य रिपुः इति तस्य सरलार्थः

ब्रह्मपक्षे व्याख्यानं कुर्वन्तः स्वामिचरणाः लिखन्ति 'अन्धयति जनान् अन्धकम्

अज्ञानं तस्य रिपुं नाशकम्' । तस्यैव श्लोके प्रणवपञ्जरशुकम् इति अतिगहनं

पदं वर्तते । तस्य विवरणं माण्डूक्योपनिषदम् आश्रित्य एवं कृतम् - परमात्मा

हि विश्ववैश्वानररूपेण अकारे, तैजसहिरण्यगर्भरूपेण उकारे, प्राज्ञेश्वररूपेण