This page has been fully proofread once and needs a second look.


इन्द्रो वह्निः पितृपतिर्नैर्ऋतो वरुणो मरुत्।
कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात्॥
 
इत्युक्ता इन्द्रादयः। हरिः विष्णुः। एते प्रमुखा यत्र एतत्प्रभृतयस्तैः
दिव्यं यथा स्यात्तथा नुतं स्तुतं शङ्करपदं शङ्करस्वरूपं प्रतिपाद्यतया
विद्यते यस्मिन् स तथा तम्। एतत्प्रभृतिभिर्दिव्यं यथा स्यात् तथा नुतस्य
शङ्करस्य बोधकानि पदानि तान्येव नुतिपदानि यस्मिंस्तमिति वा।
उक्तैर्दिव्यतया स्तुतानि उच्चरितानि शङ्करबोधकपदानि यस्मिंस्तमिति वा। पतञ्जलेर्भगवतः सर्वज्ञत्वाद् ब्रह्मादिभिरुच्चारिताः शब्दा अत्र योजिता
इति भावः। तमिमं स्तवं यः पठति। स गच्छति परम्। 'ब्रह्मविदाप्नोति
परमि'त्युक्तं परं ब्रह्म प्राप्नोति। एतत्पाठकर्तुर्ब्रह्मवित्त्वसंपत्तेरिति भावः।
न तु जनुर्जलधिं जन्मसंसारसागरं गच्छतीत्यनुषङ्गः। कीदृशं? जन्मसत्त्वे
वा का हानिरित्यत्राह- परमदुःखजनकमिति। 'दुःखमेतत्सर्वं
विवेकिन 'इत्युक्तेः संसारः सर्वोऽपि दुःखद एवेति भावः। ननु भोगेन
दुःखनिदानकर्माणि क्षपयित्वा पश्चान्मोक्षं प्राप्स्यामः किमेतत्पाठेन को वा
कतिपयजन्मस्वीकरणे दोष इत्यत्राह-दुरितदमिति। लब्ध्वा जन्म न
केवलं दुरितफलानि दुःखानि भुङ्क्ते किं तर्हि, दुरितं करोत्यपि मर्त्य इति
पुनर्जन्म मरणपरम्पराप्रापकमित्यर्थः। दुरितेत्यनेन पुण्यपापे उभे विवक्षिते।
'न सुकृतं न दुष्कृतम्' इत्युपक्षिप्य 'सर्वे पाप्मानोऽतो निवर्तन्ते'
'अपहतपाप्मा ह्येष ब्रह्मलोकः 'इत्येवं श्रुतौ पाप्मत्वेन
सुकृतदुष्कृतोभयपरामर्शात्। दुष्ठु गमनागमनं जन्ममरणादिलक्षणम् इतं
गतं गमनं यस्मात् तद् दुरितं तद् ददातीति दुरितदम्। एवंविधं जनुर्जलधिं
न गच्छतीत्यन्वयान्नामङ्गलता। दुरितानि द्यति खण्ड्यतीति तथाभूतं परं
गच्छतीति व्यवहितान्वयो वा भवजलधिविपरीत-