This page has been fully proofread once and needs a second look.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 

इन्द्रो वह्निः पितृपतिर्नैर्ऋतो वरुणो मरुत्

कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात्
 

 
इत्युक्ता इन्द्रादयः । हरिः विष्णुः । एते प्रमुखा यत्र एतत्प्रभृतयस्तैः

दिव्यं यथा स्यात्तथा नुतं स्तुतं शङ्करपदं शङ्करस्वरूपं प्रतिपाद्यतया

विद्यते यस्मिन् स तथा तम् । एतत्प्रभृतिभिर्दिव्यं यथा स्यात् तथा नुतस्य

शङ्करस्य बोधकानि पदानि तान्येव नुतिपदानि यस्मिंस्तमिति वा

उक्तैर्दिव्यतया स्तुतानि उच्चरितानि शङ्करबोधकपदानि यस्मिंस्तमिति वा
। पतञ्जलेर्भगवतः सर्वज्ञत्वाद् ब्रह्मादिभिरुच्चारिताः शब्दा अत्र योजिता

इति भावः । तमिमं स्तवं यः पठति । स गच्छति परम् । 'ब्रह्मविदाप्नोति

परमि'त्युक्तं परं ब्रह्म प्राप्नोति । एतत्पाठकर्तुर्ब्रह्मवित्त्वसंपत्तेरिति भावः

न तु जनुर्जलधिं जन्मसंसारसागरं गच्छतीत्यनुषङ्गः । कीदृशं? जन्मसत्त्वे

वा का हानिरित्यत्राह- परमदुःखजनकमिति । 'दुःखमेतत्सर्वं

विवेकिन 'इत्युक्तेः संसारः सर्वोऽपि दुःखद एवेति भावः । ननु भोगेन

दुःखनिदानकर्माणि क्षपयित्वा पश्चान्मोक्षं प्राप्स्यामः किमेतत्पाठेन को वा

कतिपयजन्मस्वीकरणे दोष इत्यत्राह - दुरितदमिति । लब्ध्वा जन्म न

केवलं दुरितफलानि दुःखानि भुङ्क्ते किं तर्हि, दुरितं करोत्यपि मर्त्य इति

पुनर्जन्म मरणपरम्पराप्रापकमित्यर्थः । दुरितेत्यनेन पुण्यपापे उभे विवक्षिते

'न सुकृतं न दुष्कृतम्' इत्युपक्षिप्य 'सर्वे पाप्मानोऽतो निवर्तन्ते'

'अपहतपाप्मा
ह्येष ब्रह्मलोकः 'इत्येवं
श्रुतौ पाप्मत्वेन

सुकृतदुष्कृतोभयपरामर्शात्। दुष्ठु गमनागमनं जन्ममरणादिलक्षणम् इतं

गतं गमनं यस्मात् तद् दुरितं तद् ददातीति दुरितदम् । एवंविधं जनुर्जलधिं

न गच्छतीत्यन्वयान्नामङ्गलता। दुरितानि द्यति खण्ड्यतीति तथाभूतं परं

गच्छतीति व्यवहितान्वयो वा भवजलधिविपरीत-
होष
 
-
 
33