2023-02-23 16:24:38 by ambuda-bot
This page has not been fully proofread.
चरणशृङ्गरहितम् नटराजस्तोत्रम्
इन्द्रो वह्निः पितृपतिर्नैर्ऋतो वरुणो मरुत् ।
कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात् ॥
इत्युक्ता इन्द्रादयः । हरिः विष्णुः । एते प्रमुखा यत्र एतत्प्रभृतयस्तैः
दिव्यं यथा स्यात्तथा नुतं स्तुतं शङ्करपदं शङ्करस्वरूपं प्रतिपाद्यतया
विद्यते यस्मिन् स तथा तम् । एतत्प्रभृतिभिर्दिव्यं यथा स्यात् तथा नुतस्य
शङ्करस्य बोधकानि पदानि तान्येव नुतिपदानि यस्मिंस्तमिति वा ।
उक्तैर्दिव्यतया स्तुतानि उच्चरितानि शङ्करबोधकपदानि यस्मिंस्तमिति वा
। पतञ्जलेर्भगवतः सर्वज्ञत्वाद् ब्रह्मादिभिरुच्चारिताः शब्दा अत्र योजिता
इति भावः । तमिमं स्तवं यः पठति । स गच्छति परम् । 'ब्रह्मविदाप्नोति
परमि'त्युक्तं परं ब्रह्म प्राप्नोति । एतत्पाठकर्तुर्ब्रह्मवित्त्वसंपत्तेरिति भावः ।
न तु जनुर्जलधिं जन्मसंसारसागरं गच्छतीत्यनुषङ्गः । कीदृशं? जन्मसत्त्वे
वा का हानिरित्यत्राह परमदुःखजनकमिति । 'दुःखमेतत्सर्वं
विवेकिन 'इत्युक्तेः संसारः सर्वोऽपि दुःखद एवेति भावः । ननु भोगेन
दुःखनिदानकर्माणि क्षपयित्वा पश्चान्मोक्षं प्राप्स्यामः किमेतत्पाठेन को वा
कतिपयजन्मस्वीकरणे दोष इत्यत्राह - दुरितदमिति । लब्ध्वा जन्म न
केवलं दुरितफलानि दुःखानि भुङ्क्ते किं तर्हि, दुरितं करोत्यपि मर्त्य इति
पुनर्जन्म मरणपरम्पराप्रापकमित्यर्थः । दुरितेत्यनेन पुण्यपापे उभे विवक्षिते
। 'न सुकृतं न दुष्कृतम्' इत्युपक्षिप्य 'सर्वे पाप्मानोऽतो निवर्तन्ते'
'अपहतपाप्मा
ब्रह्मलोकः 'इत्येवं
श्रुतौ पाप्मत्वेन
सुकृतदुष्कृतोभयपरामर्शात्। दुष्ठु गमनागमनं जन्ममरणादिलक्षणम् इतं
गतं गमनं यस्मात् तद् दुरितं तद् ददातीति दुरितदम् । एवंविधं जनुर्जलधिं
न गच्छतीत्यन्वयान्नामङ्गलता। दुरितानि द्यति खण्ड्यतीति तथाभूतं परं
गच्छतीति व्यवहितान्वयो वा भवजलधिविपरीत-
होष
-
33