This page has been fully proofread once and needs a second look.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 

एवं नवभिः श्लोकैः कृतायाः स्तुतेः पठनस्य फलमाह - इतीति । इति
। इति
पूर्वपठितरूपममुं स्तवम् । भुजगपुङ्गवकृतं भुजगपुङ्गवेन शेषावतारेण

पतञ्जलिना कृतम् । प्रतिदिनं यः कृतमुखः ख:- 'वैज्ञानिकः कृतमुखः कृती

कुशल इत्यपी'त्यमरः । कुशलत्वोक्तिरर्थानुसन्धानपूर्वकपठनपर्यन्तत्व-

लाभाय । पठति । कीदृशम् सद इति । सदसां सीदन्त्यत्र विद्वांस इति

देवादिसकलसदां प्रभुर्महेश्वर इति यावत् । तस्य पदद्वितयं चरणद्वयं

सगुणनिर्गुणपदद्वयं वा तस्य दर्शनं येभ्यस्तादृशानि पदानि यत्र स तथा

तम्। स्तवम्। किं च सुललितं सविलासम्। किं च चरणशृङ्गरहितम्

एकाकारप्रवाहित्वात् । स्थितिरूपचरणेनान्तरूपशृङ्गेण च रहितम्

चरणशृङ्गनामकच्छन्दोबद्धमित्यर्थः 1 सदञ्चितमुदञ्चितमित्यादौ

भगणलघुषट्कं गुरुलघू च । न चान्ते गुरुलघू शृङ्गवत् तिष्ठत इति

वाच्यम् । तयोरनतिस्फुटत्वादभाववदेवेति भावः । अथवा एकसत्वेऽपि

द्वयं नास्तीति स्वीकारात् चरणसत्त्वे शृङ्गे न स्तः । शृङ्गसत्त्वे चरणे न

स्त इति तदुभयत्वावच्छिन्नप्रतियोगिताकाभाववत्त्वं विवक्षितम् । तथा हि

सदञ्चितमित्यादि-भगणलघुषट्कस्वीकारे चरमाक्षराभ्यां
चरमाक्षराभ्यां
लघुगुरुभ्यां

शृङ्गसत्त्वेऽपि प्रथमं चरणे न स्तः । परं सुरवरं पुरहरमित्यादीदौ प्रथमं

लघुगुरू चरणवत्तिष्ठतः । सुरवरमित्यादि नगणगुरुषट्कमिति स्वीकारे

शृङ्गे न स्तः । इत्थं च चरणशृङ्गोभयत्वावच्छिन्नप्रतियोगिताकाभाववत्त्वं

स्पष्टम् । परे तु विष्णुब्रह्मभ्याम् आद्यन्तदर्शनार्थं वराह-हंसरूपाभ्यामध

ऊर्ध्वं सहस्रपरिवत्सरगमनेऽपि तददर्शनेन निवृत्तत्वादाद्यन्तरहितः शिव

इति समर्थितम् । तदेव चरणशृङ्गरहितनाम शिवस्य । शिवस्य

चरणश्रृङ्गरहितत्वात्तत्स्तुतेरपि चरणशृङ्गरहितत्वं भक्त्या निगद्यत

इत्याहुः । किं च सर इति । सर। सर:प्रभवं कमलम् । तत्सम्भवो ब्रह्मा कमलज:

रित्पतयः हरितां दिशां पतयः।
 
32