This page has been fully proofread once and needs a second look.

वन्दितपदमिन्द्रमुखवन्दितपदम् । ततं ततिर्व्याप्तिस्तेन सह वर्तत इति
 
वा
 

सततं व्यापकमिति वा
। उदञ्चदिति
 

 
. सततं
 
चरणशृङ्गरहितम् नटराजस्तोत्रम्
 
व्यापकमिति
 

उदञ्चतामुद्गच्छतामरविन्दकुलबन्धूनां
 
कमलबान्धवानां सूर्याणामिति
यावत्

यावत्
। यानि शतानि असङ्ख्यानि बिम्बानि तदीयरुचिसंहतिरिव

रुचिसंहतिर्यस्य तथाविधं, सुगन्धि वपुर्यस्य स तथा तम् । गन्धो गन्धक

आमोदे स्नेहे सम्बन्धगर्वयोरिति विश्वः । 'त्र्यम्बकं यजामहे सुगन्धिं

पुष्टिवर्धनमि'तियाजुषमन्त्रोक्तं सुगन्धित्वमत्र विवक्षितम् । पतञ्जलिनुतं

पतञ्जलिना मया पूर्ववर्तिना वा नुतं स्तुतं बद्धाञ्जलिना वा नुतम्

प्रणवपञ्जरशुकं, प्रणवः पञ्जर इव तत्र वर्तमान: शुक इव शुकस्तम्

शब्देऽर्थस्य निबद्धत्वात् प्रणवः पञ्जरवज्ज्ञेयः । 'तस्य वाचकः प्रणव'

इत्युक्तेः । परमात्मा हि विश्ववैश्वानररूपेणाऽकारे तैजसहिरण्यगर्भ-

रूपेणोकारे, प्राज्ञेश्वररूपेण मकारे शिवरूपेणार्धमात्रायां शुकवत् स्थितः

तं परचिदम्बरनटं हृदि भजे
 

 
पक्षान्तरे
 
-अनङ्ग इति कामसुखं तस्य परिपन्थी ब्रह्मानन्दे सति

कामादिसुखाभिलाषाऽस्तमयावश्यम्भावात् । नह्युदिते सूर्ये ताराः

प्रकाशन्ते। तमनङ्गपरिपन्थिनम्। क्षितिः क्षयः संहारस्तत्र धुरन्धरम्

सर्वसंहारकारिणम् । एवमप्यखिलं करुणयन्तम् । ज्वलन्तमनलं संहारकाले

एव कालानलं दधानम् । अन्धकरिपुम् । अन्धयति जनानन्धकमज्ञानं तस्य

रिपुं नाशकम् । सततमित्यादि पूर्ववत् । उदञ्चदिति । शतसहस्रादिपदानाम्

अनन्तवाचित्वाद् अनन्तसूर्यप्रकाशसंहतित्वोक्तिस्तेजोरूपत्वपर्यवसिता

तेजश्च ज्ञानात्मकं बोध्यम्। सुगन्धिवपुषम्। गन्घशब्द: स्नेहार्थश्च

प्रेमैकविग्रहम् । शिष्टं व्याख्यातम् । तं परचिदम्बरनटं हृदि भजे
 

भगवान शंकर मदनान्तक हैं । अजन्मा हैं । पृथिवी के भार को
 
30
 
-