This page has not been fully proofread.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 
रुचिरकुङ्कमरुचिमिति। रुचिरकुङ्कुमस्य रुचिरिव रुचिर्यस्य सृष्टिकाले
रजोगुणधारणादिति भावः। डमरुकं च चमत्कारं च दधतम्। 'डमरस्तु
चमत्कार' इति त्रिकाण्डशेषः । मुकुन्दविशिखम् । मुकुन्दो भक्तिदो
विष्णुर्ज्ञानदो वा । 'मुकुमव्ययमान्तश्च निर्वाणमोक्षदायकम् । तद् ददाति
च यो देवो मुकुन्दस्तेन कीर्तितः ।
 
मुकुं भक्तिरसप्रेमवचनं वेदसम्मतम् ।
यस्तद्ददाति विप्रेभ्यो मुकुन्दस्तेन कीर्तितः ॥
 
इति ब्रह्मवैवर्त्तादिवचनात् । स एव विशिखा स्वल्पमार्गो यस्य तम् ।
'रथ्या प्रतोली विशिखा' इत्यभिधानचिन्तामणिः । भक्तिज्ञानप्रद-
शरणगमनमेव परमात्मप्राप्तिलघुमार्ग इति भावः । तथा च कृतोपस्तीनां
जीवन्मुक्तिसम्पत्तिराख्यायते विद्वद्भिः । सा चोपास्तिः श्रवणादेः प्रागेव
• कृता सगुणसाकारविषयैव । नमदिति व्याख्यातार्थम् । निगमेति ।
निगमवृन्दमेव तुरगश्चित्तं स्वरूपबोधकं यस्य तम् । सचण्डिकं सशक्तिम् ।
झटितीति व्याख्यातचरम् । परचिदम्बरनटं हृदि भजे ॥८॥
 
त्रिपुरासुरवध के समय भगवान शंकर ने पृथिवी को रथ बनाया था
। मेरु को धनुष, शेषनाग को धनुष की डोरी, विष्णु को बाण, एवं वेदों
को घोडें बनाये थे ऐसे असंभव रथ पर वे बैठे थे। हाथों में मृग, टंक
एवं परशु आदि धारण किये हुए थे । कुंकुम लिप्त डमरु हाथ में लिये
हुए थे । फिर क्या था ? क्षण में ही दुर्धर्ष त्रिपुरासुर का सफाया कर
डाला । प्रणतजनों के पूर्णफलप्रदाता, अजन्मा, पार्वतीसहित, भगवान
चिदम्बरस्थ उन नटराज का हम भजन करते हैं ॥८॥
 
28