This page has been fully proofread once and needs a second look.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 

पुनर्बीजाङ्कुरादिक्रमेण सहस्रशः फलान्याम्रादौ दृष्टानि । न पुनः

कदलीफलादौ । इह तु नमतां बुद्ध्यादिफलदत्वं, ज्ञानमिच्छेत्तु

शङ्करादिति प्रसिद्धेः । तस्य फलं मोक्षादिकमिति फलस्यापि

फलान्तरवत्त्वं युक्तम् । अत एवाचरणादिविरहे वन्ध्यज्ञानत्वं लोके

प्रसिद्धम् । निगमवृन्दतुरगम् । उक्तालौकिकरथे निगमवृन्दान्येव तुरगा
यस्य तम्

यस्य तम्
। निगमवृन्दमेव तुरगश्चित्तं यस्य तमिति वा

'तुरगश्चित्तवाजिनो'रिति मेदिनी । यथा नेत्रं वेदत्रयमेव तथा चित्तं

निगमवृन्दमेव महादेवस्य। निरुपमम् - उपमारहितम्। सचण्डिकं

चण्डिकया पार्वत्या सहितम् । झटिति- एकक्षणे संहृतानि त्रीणि पुराणि

येन स तं झटिति संहृतपुरम् । तथाविधं परचिदम्बरनटं हृदि भजे
 

 
अत्र
 
प्रसिद्धत्रिपुरवधकथासंग्रहरूपत्वादर्थान्तरकरणप्रयासोऽनति-

प्रयोजनोऽन्यत्रप्रदर्शितनानार्थश्च तथापि सारल्येन किञ्चिज्ज्ञातुमुच्यते

क्षिती रथ इव तस्य । सर्वपृथिवीं व्याप्य वर्त्तमानत्वात्। 'व्याप्य स्थितं

रोदसी' इति वचनात्। भुजगपुङ्गवः शेषः शक्तिविशेषः । गुण इव तस्य
। कनकशृङ्गी उच्चैर्वर्चुत्तुलाकारो धनुरिव तस्य । कुरङ्गेति

रणनृत्यादिष्वपि रङ्गशब्दः । कुत्सितो रङ्गो येषां ते कुरङ्गाः

ईर्ष्याद्वेषादिना परस्परं युद्ध्यन्तः । नृत्यार्थमिव सर्वे जीवा नानारूपं

गृहीत्वाऽऽगताः । तत्र स्वस्वभूमिकानिर्वाहमकुर्वाणा विकर्मरताः कुरङ्गाः

'रङ्गो ना रणे नृत्यरणक्षितौ । अस्त्री त्रपुणी'ति मेदिनी । तेषां कुरङ्गाणां

नाशार्थं पृथुटङ्क एव परशुर्यस्य सः । टङ्कशब्द: कोपार्थः । 'टङ्को

नीलकपित्थे च खनित्रे टङ्कनेऽस्त्रियाम्। जङ्घायां स्त्री पुमान् कोपे' इति

कोशवचनात् । परशुः परं श्यतीति । कोपः कोपात्मकमायावृत्तिरेव

परशुर्नाशको न तस्यायुधान्तरमावश्यकमिति
 
27
 
भावः।