2023-02-23 16:24:37 by ambuda-bot
This page has not been fully proofread.
चरणशृङ्गरहितम् नटराजस्तोत्रम्
पुनर्बीजाङ्कुरादिक्रमेण सहस्रशः फलान्याम्रादौ दृष्टानि । न पुनः
कदलीफलादौ । इह तु नमतां बुद्ध्यादिफलदत्वं, ज्ञानमिच्छेत्तु
शङ्करादिति प्रसिद्धेः । तस्य फलं मोक्षादिकमिति फलस्यापि
फलान्तरवत्त्वं युक्तम् । अत एवाचरणादिविरहे वन्ध्यज्ञानत्वं लोके
प्रसिद्धम् । निगमवृन्दतुरगम् । उक्तालौकिकरथे निगमवृन्दान्येव तुरगा
यस्य तम् । निगमवृन्दमेव तुरगश्चित्तं यस्य तमिति वा
'तुरगश्चित्तवाजिनो'रिति मेदिनी । यथा नेत्रं वेदत्रयमेव तथा चित्तं
निगमवृन्दमेव महादेवस्य। निरुपमम् - उपमारहितम्। सचण्डिकं
चण्डिकया पार्वत्या सहितम् । झटिति एकक्षणे संहृतानि त्रीणि पुराणि
येन स तं झटिति संहृतपुरम् । तथाविधं परचिदम्बरनटं हृदि भजे ।
अत्र
प्रसिद्धत्रिपुरवधकथासंग्रहरूपत्वादर्थान्तरकरणप्रयासोऽनति-
प्रयोजनोऽन्यत्रप्रदर्शितनानार्थश्च तथापि सारल्येन किञ्चिज्ज्ञातुमुच्यते ।
क्षिती रथ इव तस्य । सर्वपृथिवीं व्याप्य वर्त्तमानत्वात्। 'व्याप्य स्थितं
रोदसी' इति वचनात्। भुजगपुङ्गवः शेषः शक्तिविशेषः । गुण इव तस्य
। कनकशृङ्गी उच्चैर्वर्चुलाकारो धनुरिव तस्य । कुरङ्गेति ।
रणनृत्यादिष्वपि रङ्गशब्दः । कुत्सितो रङ्गो येषां ते कुरङ्गाः ।
ईर्ष्याद्वेषादिना परस्परं युद्ध्यन्तः । नृत्यार्थमिव सर्वे जीवा नानारूपं
गृहीत्वाऽऽगताः । तत्र स्वस्वभूमिकानिर्वाहमकुर्वाणा विकर्मरताः कुरङ्गाः
'रङ्गो ना रणे नृत्यरणक्षितौ । अस्त्री त्रपुणी'ति मेदिनी । तेषां कुरङ्गाणां
नाशार्थं पृथुटङ्क एव परशुर्यस्य सः । टङ्कशब्द: कोपार्थः । 'टङ्को
नीलकपित्थे च खनित्रे टङ्कनेऽस्त्रियाम्। जङ्घायां स्त्री पुमान् कोपे' इति
कोशवचनात् । परशुः परं श्यतीति । कोपः कोपात्मकमायावृत्तिरेव
परशुर्नाशको न तस्यायुधान्तरमावश्यकमिति
27
भावः।