This page has been fully proofread once and needs a second look.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 

पूरयितुं 'रथःक्षोणी यन्ता शतधृतिरि'त्यादिरीत्या कृतेन विलक्षणरथादिना

त्रिपुरहरं स्तौति - अजमिति । अजं जन्मरहितम् । क्षितिरथं क्षितिः

पृथिवी रथो यस्य तम् । भुजगपुङ्गवगुणं भुजगपुङ्गवो वासुकिरेव धनुषो

गुणो यस्य तम् । नागयज्ञोपवीतमिति वा । कनकशृङ्ग्ङ्गिधनुषं
-
कनकशृङ्गी सुवर्णपर्वतः सुमेरुः स एव धनुर्यस्य तम् । अगेन्द्रो धनुरथो'

इत्युक्तेः 1 ननु धनुरन्तस्य बहुव्रीहे: 'धनुषश्चे'त्यनङादेशे

कनकशृङ्गिधन्वानमितिरूपेण भाव्यम्। असंज्ञात्वेन 'वा संज्ञायामि'ति

सूत्राप्रवृत्तेः । सत्यम् । समासान्तस्यानित्यत्वादुपपत्तिः । न चैवं

'संज्ञायामि'ति विकल्पविधानवैयर्थ्यम् क्वचित्प्रयोगानुसारेण
 

समासान्ताऽकरणमेव तदनित्यत्वम् । न तु सर्वत्र विकल्प एवेति

तत्सार्थक्योपपत्तेः । करेति । करेषु लसन्तः कुरङ्गो मृगश्च

पृथुर्विशालष्टङ्कश्च परशुश्च यस्य तम् । रुचिरेति रुचिरकुङ्कुमस्य रुचि
चिं
दधतं डमरुं च दधतम् । कु। कुङ्कुमचन्दनलेपितलिङ्गमिति प्रसिद्धेः

रुचिरकुङकुमस्य रुचिरिव रुचिर्यस्य तमिति विग्रहस्तु दुर्घटः

हिमरुचिमिति पूर्वोक्तेः । न चैवमपि रुचिपदवैयर्थ्यम्

कुङ्कुमापसरणकालेऽपि तदीयलौहित्यावशेषदर्शनात्
। अथवा
क्षितिरथमित्यादिना युद्धसंनाहवर्णनाद्
 

 
अथवा
 
युद्धाय
 
निर्गमनकाले
 
यस्मिंस्तमिति
 

कुङ्कुमधारणप्रसिद्धेः रुचिरकुङ्कुमस्य रुचिः शोभा
यस्मिंस्तमिति
बहुव्रीहिरेवास्तु । न चैवं डमरुकं चेति चकारवैयर्थ्यापत्तिः । डमरुकं दधतं

चेति व्यत्ययेनान्वयात्पूर्वविशेषणसमुध्याच्चायकतयोपपत्तेः । मुकुन्दविशिखं-

मुकुन्द एव विशिखो बाणो यस्य तम् । 'रथचरणपाणिः शर इती'ति

प्रसिद्धेः । नमदवन्ध्यफलदम् । नमतां भक्तानामवन्ध्यं फलं ददानम् । न च

फलशून्यत्वमेव वन्ध्यत्वं, तत्र कथं फलेऽवन्ध्यत्वविशेषणं तस्य

फलान्तरवत्त्वे तत् साधनमेव स्यान्न तु फलमिति वाच्यम् । यतः फलाद्धि
 
26
 
-