This page has not been fully proofread.

1
 
चरणशृङ्गरहितम् नटराजस्तोत्रम्
 
His complexion is white like a bunch of blooming Kunda
flowers. He wears a glittering appearance when saluted
by Vishnu, gods and Indra, the killer of Balasura (बलासुर).
His ear-ornament consists of serpent. He is free from fear
and, hence, unmoved. However, he took pity on Rati. He
is a reservoir of all auspicious things for good persons.
The destroyer of Gajasura is the Lord of Creatures,
praised by Arjuna. He is inclined to be delightful to
persons who bow down to him. (6).
 
परं सुरवरं पुरहरं पशुपतिं जनितदन्तिमुखषण्मुखममुं
मृडं कनकपिङ्गलजर्ट सनकपड्कजरविं सुमनसं हिमरुचिम् ।
असगमनसं जलधिजन्मगरलं कवलयन्तमतुलं गुणनिधिं
सनन्दवरदं शमितभिन्दुवदनं परचिदम्बरनटं हृदिं भजे ॥७
 
सर्वश्रेष्ठत्वेन परमदयावत्त्वेन चाधुना स्तौति - परमिति । परं श्रेष्ठं
सर्वेषु । सुराणां वरं महादेवम् । पुरहरं व्याख्यातं जगत्क्षेमार्थतया ।
पशुपतिम् । दन्तिमुखो गणेशः । षण्मुखः कार्तिकेयस्तौ जनितौ
विघ्नवारणार्थं देवसेनानयनार्थं चेति जनितदन्तिमुखषण्मुखम् । अज्ञानिनां
विप्रकृष्टत्वादमुम् । परलोकस्थं कैलासवासिनम् । सुखहेतुत्वान्मृडम् ।
कनकवत् पिङ्गला जटा यस्य तम् । सनको ऋषिः स एव पङ्कजं
तदुल्लासकारिरविं सनकपङ्कजरविम् । सर्वप्राणिषु सौमनस्ययुक्तं
सुमनसम् । हिमवद् धवलरुचिं हिमरुचिम् । पार्वत्यादिष्वप्यसगं मनो
यस्य स तमसगमनसं जगद्रक्षणाय जलधिजन्मगरलं हालाहलं कवलयन्तं
भक्षयन्तम् । अतुलं न विद्यते तुला तुलना यस्य तमतुलं गुणनिधिं
 
23