This page has not been fully proofread.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 
। मुकुन्दः किल प्रद्युम्नापहरणसमनन्तरं पुत्रार्थं शङ्करमतोषयत् । ततश्च
साम्बशिवः प्रसन्नः पुत्रार्थं वरं ददौ। तस्य पुत्रस्य नाम साम्ब इति प्रसिद्धम्
। एवं त्रिपुरतारकाद्युत्पातसमये सुरवृन्दादिस्तुतत्वमपि । अहिकुण्डलधरम्
। कर्णयोः सर्पकुण्डलधारिणम्। तथा चाहीनामपि महीयस्त्वमीश्वरश्चकार ।
घोराहिधारणेऽप्यकम्पम् । भयरहितम् । स्वावस्थाप्रच्युतिरहितं वा ।
अनुकम्पितरतिम् । अनुकम्पितेषु भक्तेषु रतिर्यस्य अनुकम्पितान्तं रतिर्यत्र
वा तम् । अनुकम्पिता रतिः कामपत्नी पार्वतीविवाहसमये
कामपुनःशरीरत्वाय येन तमिति वा । अनुकम्पितमनुकम्पनं भावे क्तः तत्र
रतिर्यस्य तमिति वा । सुजनमङ्गलनिधिं सुजनानां सतां यानि
मङ्गलानि सम्भावितानि तेषां निधिं सकलमङ्गलास्पदं शिवरूपत्वात् ।
सुजनानां मङ्गलं निदधातीति वा। सुजनमङ्गलकारिणमित्यर्थः। गजहरम्
। गजो गजासुरः । तस्य हन्तारम् । गजासुरं हत्वा तदीयं चर्म दधार
भगवान् शङ्कर इति । तत्रापि कृपैव मूलमिति द्रष्टव्यम् । पशुपतिम् ।
पशूनां जीवानां पाशबद्धानां पतिं रक्षकमिति करुणाऽत्रापि सूच्यते ।
धनञ्जयनुतं - तपस्यता धनञ्जयेन पार्थेन स्तुतं यतश्च पाशुपतास्त्र-
प्राप्तिरर्जुनस्याभवदिति कृपावत्त्वमन्त्रापि । सर्व संगृह्याह
प्रणतरञ्जनपरम् । प्रणतानां रञ्जनमानन्दापादनमेव परं यस्य स तथाविधं
परचिदम्बरनटमहं भजे ।
 
-
 
ब्रह्मपक्षे तु :- अचिन्त्यं मनोऽविषयतवाद् । अलीति। गल अदने ।
गलति अत्ति अनेन प्रलयकाले सर्वं जगदिति गलः। स चालिवृन्दरुचिः
कृष्णवर्णस्तेन बन्धुरः । तमोगुणरूपः । अजामेकां लोहितशुक्लकृष्णामिति
श्रुतेः । 'प्रबलतमसे तत्संहारे हराय नमो नम' इति च गन्धर्वराजः ।
कुरितेति। रक्षणकाले सत्त्वगुणावच्छेदात् । उक्तश्रुती शुक्लेत्यनेन
 
21