2023-02-23 16:24:36 by ambuda-bot
This page has not been fully proofread.
चरणशृङ्गरहितम् नटराजस्तोत्रम्
अलीति । अलयो भ्रमराः श्यामवर्णास्तेषां वृन्दस्य रुचिर्निरन्तरश्यामता
तया बन्धुरो 'मनोहरो गलः कण्ठो यस्य तं नीलकण्ठम् । एतेन हालाहल-
भक्षणजनितकालिमद्योत्यपरमकृपावश्यताऽभिहिता। 'अकाण्डब्रह्माण्ड
क्षयचकितदेवासुरकृपाविधेयस्ये' त्यादि महिम्नस्तोत्रे । अलिः कोकिलेपीति
शब्दरत्नावली । कोकिलवृन्दस्य रुचिः स्वरमधुरिमा । तेन बन्धुरो गलो
रागप्रवर्तकत्वाद् यस्य स इति वा । कुरितेति । 'कुरशब्दे' । कुरितं
शब्दितम् । स्वीयसुगन्धाऽऽहूतभ्रमरादिशब्दयुतं यत् कुन्दपुष्पनिकुरम्बं
तद्वद् धवलम् । प्रफुल्लकुन्दपुष्पधवलमित्यर्थः । स्फुरितेति पाठः सुगमः ।
कुरधातोरेव कोरकशब्दनिष्पत्तेस्तत्र भूतार्थप्रत्ययेन प्रफुल्लार्थलाभाद् वा ।
या कुन्देन्दुतुषारहारधवलेत्यादि प्रयोगदर्शनाद् धवलवर्णस्य कुन्दपुष्पोपमा
युज्यते ।
अथवा गलेति दीर्घः पाठ: । अलिवृन्दरुचि-
बन्धुरगलाङ्कुरितकुन्दनिकुरम्बधवलम् इत्येकपदम् । अलिवृन्द-
रुचिबन्धुरगलाङ्कुरितं यत् कुन्दपुष्पं तद्वत् धवलमित्यर्थः ।
गलेनाङ्कुरितमित्यत्राभेदे तृतीया । तादृशगल एवाइकुररूपेण यत्र वर्तत
इति। तादृशगलरूपो योऽङ्ङ्कुरः स सञ्जातोऽत्रेति वा । 'तदस्य संजातं
तारकादिभ्य इतच्'। विशुद्धज्ञानदेहत्वसूचनाय कुन्देत्यादि विशेषणम् ।
अलिवृन्दो यथा कुन्दनिकुरुम्बे तथा नीलगलो धवलशरीरे शोभते । तथैव
माया विशुद्धज्ञानस्वरूपपरमात्मैकदेशेऽनादिकल्पितेति च सूच्यते । यथा
चालिवृन्दं न कुन्दपुष्पस्य वास्तविकं रूपं किन्त्वागन्तुकमेव। एवं ब्रह्मणि
मायातमोऽप्यागन्तुकमेव, नत्वग्न्यौष्ण्यवत्स्वभावसिद्धमिति तस्य नाश्यत्वं
संभवतीति ध्वन्यते । अपि च सरसे हि पुष्पे भ्रमरा: परिभ्रमन्तीति तद्वद्
भगवतः शंकरस्य शरीरं ध्यातॄणां रसप्रदमिति सूच्यते । मुकुन्देति ।
मुकुन्दश्च सुरवृन्दं च बलनामकासुरहन्ता इन्द्रश्च । 'बलारातिः
शचीपतिरि'त्यमरः । एतैः कृतेन वन्दनेन लसन्तं शोभमानं समुल्लसन्तं वा
20