This page has been fully proofread once and needs a second look.

'चरणशृङ्गरहितम् नटराजस्तोत्रम्
 

जलम् । वियद् - आकाश: । इन्दुश्चन्द्रः । अवनिः पृथिवी । गन्धवहो

वायुः । वह्निः प्रसिद्धः । मखबन्धुः - यज्ञबन्धुर्यजमान आत्मा । रविः

सूर्यः एते एव मज्ञ्जूनि वपूंषि यस्य तम् । अनन्तविभवम् -

अनन्तवैभवसम्पन्नम्। 'सुरास्तां तामृद्धिं दधति तु भवद्भूभ्रूप्रणिहिताम्' इति

वचनात्। 'विभवो धननिर्वृत्योः' इति हैमः । त्रिजगदन्तरमणिम् । जगत्रये

मणिवदुत्कृष्टं भासमानं वा । त्रिनयनं नेत्रत्रयवन्तम्। त्रिपुरखण्डनपरं

व्याख्यातम् । सनन्देति गतार्थम् । सकरुणं करुणापूर्णं परचिदम्बरनटं हृदि

भजे
 

 
ब्रह्मपक्षे प्रायः समानम् । अनन्तं महो ज्ञानज्योतिर्यस्य

त्रिदशेत्युक्तार्थम्। त्रिस्रो दशाः श्रवणमनननिदिध्यासनरूपा येषां

तैस्तत्त्ववेदिभिर्वन्द्यपदमिति वा । मुनीति । गतार्थम् । मुनिये॑र्ध्येयम्। अमलम्

-अविद्यादिमलरहितम्। कबन्धेत्यादि। 'यस्य पृथिवी शरीरं' 'यस्यापः

शरीरम्' इत्यादि श्रुतेः । उपलक्षणं चेदं श्रुत्युक्तानां सर्वेषाम् । यद्वा

पञ्चभूतात्मकं जगत्। यस्यात्मा शरीरमिति जीवात्मपरिग्रहः । सूर्यचन्द्रयोः

पृथग्ग्रहणं प्रपञ्चार्थम्। कालस्य पृथक्त्वमते तत्सङ्ग्रहार्थं वा

अनन्तविभवम् अनन्तानन्दम् । त्रिजगदन्तरमणि णिं- सर्वसाक्षिणम्

त्रिनयनमिति । त्रिवेदीदिव्यचक्षुष इति वचनाद् वेदत्रयनयनं,

वेदत्रयप्रतिपाद्यं वा । त्रिपुरेत्यादिकं व्याख्यातार्थम्। एवंविधं परचिदम्बरनटं

हृदि भजे
 

 
महेश्वर भगवान के उपासनीय रूप भी अति गहनीय हैं। चारों ओर

अनन्त कान्ति फैल रही है । देवता चरणवन्दना कर रहे हैं। मुनियों के

हृदय तो उनके वासस्थान ही बन रहे हैं, जल, आकाश, चन्द्रमा,
 
18