This page has been fully proofread once and needs a second look.


ताण्डवेऽनन्तैरसंख्यैर्नवरत्नैर्विलसतां शोभमानानां कटकानां किङ्किणीनां
च झलञ्झलझलञ्झलेत्यव्यक्तरूपो रवो ध्वनिर्यस्य स तथा तम्। मुकुन्देति। मुकुन्दस्य विष्णोः, विधेः कमलासनस्य च हस्तगतयोः
मद्दलयोर्लयतालध्वनिर्यस्तेन धिमिद्धिमितं तादृशाव्यक्तशब्दयुक्तं नर्तनपदं
यस्य स तथा तम्। शकुन्तेति। शकुन्तो गरुडो रथो रथचिन्हं वा यस्य स
विष्णुः। बर्हिर्मयूरो रथो रथध्वजो वा यस्य स कार्तिकेयः। नन्दिमुखा
नन्दिरेव मुखेऽग्रे येषां ते शृङ्गी च रिटिश्च भृङ्गी चेत्येवंविधा गणास्तेषां
सङ्घः 'गणानां त्वा गणपतिमि'ति 'उमासहायो देवेशो गणैश्च बहुभिर्वृतः'
इत्यादिप्रयोगदर्शनाद् रुद्रानुचरा गणाः। स च स च स च निकटे यस्य सः
तथा तम्। विष्णुः सुहृत्त्वेन कार्तिकेयः पुत्रत्वेन
नन्दिमुखशृङ्ग्यादिगणसंधः सेवकत्वेन निकटे स्थिता इति विवेकः।
केचित्तु कोशव्याख्यायां शृङ्ग्यादयो नन्दिपर्यायत्वेन व्याख्याताः। किन्तु
पुराणेषु तेषां पृथग्गणनादर्शनान्न नन्दिपर्यायत्वं शृङ्ग्यादिशब्दानामिति
द्रष्टव्यम्। सनन्देति। सनकसनन्दनादिमहर्षिर्वन्दितचरणम्।
परचिदम्बरनटं हृदि भजे।
 
'परब्रह्मपक्षे - अनन्तेति। अनन्तैर्नवनवै रत्नै रतिभिरानन्दांशैर्विलसतां
कटकानां रुद्रसेनानामल्परुद्ररूपाणामानन्दमयवृत्तीनां वा कमानन्दं
कणयतीति कङ्कणयः। अणरणगतौ। मित्वाद्ह्रस्व:। कङ्कणय एव
किङ्कणयः किङ्किण्यश्च। यद्वा तेषां कटकानामानन्दवतामपि किं
किमिति किमिदं किमिदमित्याश्चर्यं नयन्तीति
किङ्किणयस्तदीयझलञ्झलरवो यस्य स तथा तम्। यदा किल रुद्रसेना
सानन्दापि मूलभूतानन्दाभिमुखा भवति तदा तदानीन्तनवृत्तयः परमानन्दं
गमयन्तीत्यानन्दरवं ते कुर्वन्ति। एवमानन्दमयवृत्तयोऽपि मूलभूतमानन्दं