This page has been fully proofread once and needs a second look.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 

ताण्डवेऽनन्तैरसंख्यैर्नवरत्नैर्विलसतां
 
शोभमानानां कटकानां किङ्किणीनां
 

च झञ्झलझलञ्झलेत्यव्यक्तरूपो रवो ध्वनिर्यस्य स तथा तम् । मुकुन्देति
। मुकुन्दस्य विष्णोः, विधेः कमलासनस्य च हस्तगतयोः

मद्दलयोर्लयतालध्वनिर्यस्तेन धिमिद्धिमितं तादृशाव्यक्तशब्दयुक्तं नर्तनपदं

यस्य स तथा तम्। शकुन्तेति । शकुन्तो गरुडो रथो रथचिह्नन्हं वा यस्य स

विष्णुः । बर्हिर्मयूरो रथो रथध्वजो वा यस्य स कार्तिकेयः । नन्दिमुखा

नन्दिरेव मुखेऽग्रे येषां ते शृङ्गी च रिटिश्च भृङ्गी चेत्येवंविधा गणास्तेषां

सङ्घः 'गणानां त्वा गणपतिमि'ति 'उमासहायो देवेशो गणैश्च बहुभिर्वृतः'

इत्यादिप्रयोगदर्शनाद् रुद्रानुचरा गणाः । स च स च स च निकटे यस्य सः

तथा
तम्
1
विष्णुः
सुहृत्त्वेन कार्तिकेयः
सुहृत्
पुत्रत्वेन

नन्दिमुखशृङ्ग्यादिगणसंधः सेवकत्वेन निकटे स्थिता इति विवेकः

केचित्तु कोशव्याख्यायां शृङ्ग्यादयो नन्दिपर्यायत्वेन व्याख्याताः । किन्तु

पुराणेषु तेषां पृथग्गणनादर्शनान्न नन्दिपर्यायत्वं शृङ्ग्यादिशब्दानामिति

द्रष्टव्यम् । सनन्देति । सनकसनन्दनादिमहर्षिर्वन्दितचरणम्।

परचिदम्बरनटं हृदि भजे
 
पुत्रत्वेन
 
तथा
 

 
'परब्रह्मपक्षे - अनन्तेति । अनन्तैर्नवनवै रत्नै रतिभिरानन्दांशैर्विलसतां

कटकानां रुद्रसेनानामल्परुद्ररूपाणामानन्दमयवृत्तीनां वा कमानन्दं

कणयतीति कङ्कणयः । अणरणगतौ । मित्वाद्हस्वः ह्रस्व:। कङ्कणय एव

किङ्कणयः किङ्किण्यश्च । यद्वा तेषां कटकानामानन्दवतामपि किं

किमिति किमिदं किमिदमित्याश्चर्यं नयन्तीति
 

किङ्किणयस्तदीयझलञ्झलरवो यस्य स तथा तम् । यदा किल रुद्रसेना

सानन्दापि मूलभूतानन्दाभिमुखा भवति तदा तदानीन्तनवृत्तयः परमानन्दं

गमयन्तीत्यानन्दरवं ते कुर्वन्ति । एवमानन्दमयवृत्तयोऽपि मूलभूतमानन्दं
 
15