2023-02-23 16:24:35 by ambuda-bot
This page has not been fully proofread.
चरणशृङ्गरहितम् नटराजस्तोत्रम्
ताण्डवेऽनन्तैरसंख्यैर्नवरत्नैर्विलसतां
शोभमानानां कटकानां किङ्किणीनां
च झञ्झलझलञ्झलेत्यव्यक्तरूपो रवो ध्वनिर्यस्य स तथा तम् । मुकुन्देति
। मुकुन्दस्य विष्णोः, विधेः कमलासनस्य च हस्तगतयोः
मद्दलयोर्लयतालध्वनिर्यस्तेन धिमिद्धिमितं तादृशाव्यक्तशब्दयुक्तं नर्तनपदं
यस्य स तथा तम्। शकुन्तेति । शकुन्तो गरुडो रथो रथचिह्न वा यस्य स
विष्णुः । बर्हिर्मयूरो रथो रथध्वजो वा यस्य स कार्तिकेयः । नन्दिमुखा
नन्दिरेव मुखेऽग्रे येषां ते शृङ्गी च रिटिश्च भृङ्गी चेत्येवंविधा गणास्तेषां
सङ्घः 'गणानां त्वा गणपतिमि'ति 'उमासहायो देवेशो गणैश्च बहुभिर्वृतः'
इत्यादिप्रयोगदर्शनाद् रुद्रानुचरा गणाः । स च स च स च निकटे यस्य सः
तम्
1 विष्णुः
कार्तिकेयः
सुहृत्त्वेन
नन्दिमुखशृङ्ग्यादिगणसंधः सेवकत्वेन निकटे स्थिता इति विवेकः ।
केचित्तु कोशव्याख्यायां शृङ्ग्यादयो नन्दिपर्यायत्वेन व्याख्याताः । किन्तु
पुराणेषु तेषां पृथग्गणनादर्शनान्न नन्दिपर्यायत्वं शृङ्ग्यादिशब्दानामिति
द्रष्टव्यम् । सनन्देति । सनकसनन्दनादिमहर्षिर्वन्दितचरणम्।
परचिदम्बरनटं हृदि भजे ।
पुत्रत्वेन
तथा
'परब्रह्मपक्षे - अनन्तेति । अनन्तैर्नवनवै रत्नै रतिभिरानन्दांशैर्विलसतां
कटकानां रुद्रसेनानामल्परुद्ररूपाणामानन्दमयवृत्तीनां वा कमानन्दं
कणयतीति कङ्कणयः । अणरणगतौ । मित्वाद्हस्वः । कङ्कणय एव
किङ्कणयः किङ्किण्यश्च । यद्वा तेषां कटकानामानन्दवतामपि किं
किमिति किमिदं किमिदमित्याश्चर्यं नयन्तीति
किङ्किणयस्तदीयझलञ्झलरवो यस्य स तथा तम् । यदा किल रुद्रसेना
सानन्दापि मूलभूतानन्दाभिमुखा भवति तदा तदानीन्तनवृत्तयः परमानन्दं
गमयन्तीत्यानन्दरवं ते कुर्वन्ति । एवमानन्दमयवृत्तयोऽपि मूलभूतमानन्दं
15