This page has been fully proofread once and needs a second look.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 

अत एव भवहरं, फलतश्च शिवं मोक्षस्वरूपं तुरीयावस्थात्मकम् । दशेति

दशसु दिगन्तरेषु सर्वत्रेति यावत् विजृम्भिता विस्तारिताः करा: किरणा
:
ज्ञानकिरणा जीवात्मरूपा यस्य स तथा तम् । 'प्रज्ञानांशुप्रतानैः

स्थिरचरनिकरव्यापिभिर्व्याप्य लोकानि'त्याचार्याः । करलसन्मृगशिशुम्,

'करो वर्षोपले पाणौ रश्मौ प्रत्ययशुण्डयोरि'ति मेदिनी । करेषु प्रत्ययेषु

लसन्तो मृगशिशवो मृग्यमाणस्वरूपाल्पभागा यस्य तम्

प्रतिबोधविधितामिति श्रुतौ बौद्धप्रत्ययेषु सर्वत्र ब्राह्मण एव सावच्छिन्नं रूपं

प्रकाशविधया भासत इति सिद्धान्तितत्वात् । ब्रह्मरूपं च

मृग्यमाणत्वान्मृगशब्दितम् । सोऽन्वेष्टव्य इति श्रुतेः। 'मार्गणं मृगणा मृग
'
इत्यमरः । पशुपतिम् । व्याख्यातम् । पश्यन्तीति पशवो जीवा

ज्ञानस्वरूपास्तेषां पतिं पूर्णज्ञानस्वरूपमिति वा । हरं, व्याख्यातम्

शशीति। चन्द्राग्निसूर्याणां नेतारम् । 'तमेव भान्तमनुभाति सर्वमि 'ति

श्रुतेः। शशिप्रभृतयो नयनानि दर्शकानि यस्येति वा । 'यदादित्यगतं तेजो

जगद्भासयतेऽखिलम्, यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकमि'ति

भगवद्वचनाच्चन्द्रादितेजोरूपोपासनया परमात्मदर्शनलाभो लभ्यते

चन्द्रादिषु विशेषेण परमात्मन उपलभ्यमानत्वाद्वा । एवंभूतं परचिदम्बरनटं

हृदि भजे ॥३॥
 

 
भगवान शिव का अन्तःसौन्दर्य भी अनुपम है । वे हर होने पर भी

समस्त जगत के रक्षक हैं। शाश्वत सद्गुणों से सर्वोपरि है । चन्द्रमा को

धारण कर सबको आल्हाद पहुंचाते हैं। उनकी जटायें संसार को पवित्र

करने के लिये मानो गङ्गा की तरंगों को पकड रखने में लम्पट सी हो

गयी हैं । यमराज के दम्भ को (मारने के दिखावे को) निरस्त कर उन्हों

ने भक्तों को अमरत्व प्रदान किया । अत एव भवहारी भी हुए । नृत्य
 
13