This page has been fully proofread once and needs a second look.

मृगशिशुर्यस्य तम् । 'परशुमृगवराभीतिहस्तं प्रसन्नमि'ति प्रसिद्धेः। पशुपतिं
-
पशूनां प्रमथानां पतिम् । पशुरर्मृगादौ छगले प्रमथे च पुमानयम्' इति

रभसः । पशूनां जीवानां पतिमिति वा । पशूनां पाशबद्धानामुपगतानां

रक्षयितारमिति वा । मिथ्याज्ञानाऽधर्मासक्ति-हेतुच्युतिभिः पशुत्वं

जीवानाम्। मलकर्ममायारोधशक्तिबिन्दवः पाशा उच्यन्ते। हरं व्याख्यातम्

शशीति। शशी चन्द्रः। धनञ्जयो वह्निः। पतङ्गः सूर्यः। 'पतङ्गः

पक्षिसूर्ययोः' इति कोशात् । एते नयनानि यस्य तम्

'विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रमि'ति प्रसिद्धेः । एवंभूतं परचिदम्बरनटं हृदि
 
-
 
चरणशृङ्गरहितम् नटराजस्तोत्रम्
 

भजे
 

 
ब्रह्मपक्षे :- अखिलं जगदवन्तं, 'येन जातानि जीवन्ति' इति श्रुतेः

अभङ्गगुणतुङ्गम् - अभङ्गैर्भङ्गरहितैर्गुणैस्तुङ्गं वरणीयत्वेनोत्कृष्टम्

सन्ति ह्यानन्दादयो गुणाः परब्रह्मणि, ते चाऽपृथक्त्वेऽपि गुणवद् भासन्ते

तथा चोक्तं पञ्चपादिकाकृद्भिः 'आनन्दो विषयानुभवो नित्यत्वं चेति

सन्ति धर्मा अपृथक्त्वेऽपि पृथगिवावभासन्त' इति । अमतम् । 'यन्मनसा

न मनुते' 'यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह' इत्यादि श्रुतेः

धृतविधुमिति। 'विधुः शशाङ्के कर्पूरे हृषीकेशे च राक्षसे' इति विश्वः

जगद्रक्षणाय धृतहृषीकेशरूपमित्यर्थः । विशेषेण धीयते पीयते 'धेट्

पाने'कुः। विधुरानन्दो धृतो येनेतिवा। आह्लादकारित्वं विधोः प्रसिद्धम्

सुरसरिदिति । ब्रह्मद्रवत्वेन रूपेण हि प्रसिद्धा गङ्गा । सुरसरित्तरङ्गाणां

धृतौ धारणे लम्पटा जटा मूलं माया तदिच्छा वा यस्मिंस्तम्। 'मूले

लग्नकचे जटा' इत्यमरः । शङ्कराभिन्नत्वाद्वा विशेषणोपपत्तिः

शमनदम्भसुहरम् । शमनस्य मरणलक्षणसंसारस्य प्रयोजको यो दम्भः

कापट्यमन्यथाभूर्तस्यान्यथाप्रदर्शनात्मको मायाशब्दितस्तस्य नाशकम्
 
12