This page has been fully proofread once and needs a second look.


 
चरणशृङ्गरहितम् नटराजस्तोत्रम्
 

इत्यर्थः
 
। अनन्तैर्गुणैस्तुङ्गमिति वा । अनन्तानां गुणानां

मतिपरिच्छेद्यत्वायोगादेव -अमतम् । मतेरविषयम् । तथा चोक्तम्
 

 
को वा अनन्तस्य गुणाननन्ताननुक्रमिष्यन् स तु बालबुद्धिः

रजांसि भूमेर्गणयेत्कथंचित्कालेन नैवाखिलशक्तिधाम्नः
 

 
इति। बुद्धेरविषयस्य बुद्धिविषयत्वं कर्तुं प्रवर्तमानो बालबुद्धिरित्यर्थः।

अनन्तगुणयुक्तत्वादखिलजगदवनं सुकरं, तत्र च 'किमीहः किंकायः स

खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजती'त्यादि प्रश्नानां चानवसर

एवाऽमतत्वादिति तात्पर्यम् । धृतविधुम् । धृतो विधुश्चन्द्रमाः

चूडामणितया नटनार्थं सकलजगदाह्लादकरो जगदवनार्थं च येन स तथा

तम्। सुरेति। सुरसरिद् -गङ्गा तदीयानां तरङ्गाणां निकुरम्बस्य

समुदायस्य धृतिर्धारणं तत्र लम्पटा समुत्सुका जटा यस्य तम् । शिवेन

सहाहं पृथिवीमुद्भिद्य पातालं यास्यामीति गर्वयुक्ताया गङ्गाया

गर्वहरणपरत्वद्योतनार्थं लम्पटत्वविशेषणम्
नटनसमये
 

तदुच्छलनसमुद्भूतभागीरथीजलेनैव सागरपूरणात्तत एव मेघाद्युत्पत्तेः

जगद्रक्षणौपयिकत्वं चात्र सूचितम् । शमनदम्भसुहरम् । शमनस्य यमस्य

दम्भः सशिवलिङ्ग मार्कण्डेयबन्धनर्धाष्ट्यात्मकस्तं सुष्ठु हरतीति तथा
तम्

तम्।
अकालमरणादिरपि शमनदम्भ एव
 
तद्धरणमपि
जगद्रक्षणान्तर्गतमेव । भवहरम्
आनन्ददायिनम्
 
1
 
तद्धरणमपि
 
-संसारदुःखहरणकारिणम् । शिवम् -

आनन्ददायिनम्। शिवमिति
विशेष्यपदं योगरूढम्।
 
शिवमिति
 

दशदिगन्तरविजृम्भितकरम् - नृत्यसमये भ्रामणेन दशदिगन्तरे विजृम्भिताः

व्याप्ताः करा यस्य तम् । पञ्चवक्त्रस्य दशहस्तत्वाद् वा

दशदिगन्तरविजृम्भितकरत्वम् । करलसन्मृगशिशुम् । करे लसन्
 
F
 
11