This page has not been fully proofread.


 
चरणशृङ्गरहितम् नटराजस्तोत्रम्
 
इत्यर्थः
 
। अनन्तैर्गुणैस्तुङ्गमिति वा । अनन्तानां गुणानां
मतिपरिच्छेद्यत्वायोगादेव अमतम् । मतेरविषयम् । तथा चोक्तम् ।
 
को वा अनन्तस्य गुणाननन्ताननुक्रमिष्यन् स तु बालबुद्धिः ।
रजांसि भूमेर्गणयेत्कथंचित्कालेन नैवाखिलशक्तिधाम्नः ॥
 
इति। बुद्धेरविषयस्य बुद्धिविषयत्वं कर्तुं प्रवर्तमानो बालबुद्धिरित्यर्थः।
अनन्तगुणयुक्तत्वादखिलजगदवनं सुकरं, तत्र च 'किमीहः किंकायः स
खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजती'त्यादि प्रश्नानां चानवसर
एवाऽमतत्वादिति तात्पर्यम् । धृतविधुम् । धृतो विधुश्चन्द्रमाः
चूडामणितया नटनार्थं सकलजगदाह्लादकरो जगदवनार्थं च येन स तथा
तम्। सुरेति। सुरसरिद् गङ्गा तदीयानां तरङ्गाणां निकुरम्बस्य
समुदायस्य धृतिर्धारणं तत्र लम्पटा समुत्सुका जटा यस्य तम् । शिवेन
सहाहं पृथिवीमुद्भिद्य पातालं यास्यामीति गर्वयुक्ताया गङ्गाया
गर्वहरणपरत्वद्योतनार्थं लम्पटत्वविशेषणम्
नटनसमये
 
तदुच्छलनसमुद्भूतभागीरथीजलेनैव सागरपूरणात्तत एव मेघाद्युत्पत्तेः
जगद्रक्षणौपयिकत्वं चात्र सूचितम् । शमनदम्भसुहरम् । शमनस्य यमस्य
दम्भः सशिवलिङ्ग मार्कण्डेयबन्धनर्धाष्ट्यात्मकस्तं सुष्ठु हरतीति तथा
तम्
अकालमरणादिरपि शमनदम्भ एव
 
जगद्रक्षणान्तर्गतमेव । भवहरम्
आनन्ददायिनम्
 
1
 
तद्धरणमपि
 
संसारदुःखहरणकारिणम् । शिवम् -
विशेष्यपदं योगरूढम्।
 
शिवमिति
 
दशदिगन्तरविजृम्भितकरम् - नृत्यसमये भ्रामणेन दशदिगन्तरे विजृम्भिताः
व्याप्ताः करा यस्य तम् । पञ्चवक्त्रस्य दशहस्तत्वाद् वा
दशदिगन्तरविजृम्भितकरत्वम् । करलसन्मृगशिशुम् । करे लसन्
 
F
 
11