This page has been fully proofread once and needs a second look.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 

prominent serpent. The Great One has crushed Yama by

his feet. His body is decorated with ash. He is inclined to

brush aside Cupid. His preciousness is saturated in the

syllable - Om. (2)
 

 
अवन्तमखिलं जगदभङ्गगुणतुङ्गममलं धृतविघुं सुरसरित्-

तरङ्गनिकुरम्बधृतिलम्पटजटं शमनदम्भसुहरं भवहरम्

शिवं दशदिगन्तरविजृम्भितकरं करलसन्मृगशिशुं पशुपतिं

हरं शशिधनञ्जयपतङ्गनयनं परचिदम्बरनटं हृदि भजे ॥३
 

 
प्रणवजपं तदौपयिकध्येयस्वरूपं च फलपर्यन्तं निरूप्य अधुना

नटनप्रयोजनं तदौपयिकरूपविशेषं तद्ध्यानफलं च वर्णयन् स्तौति

अवन्तमिति । अखिलजगदवन्तं रक्षन्तमिति नटनप्रयोजनम्। तथा चाह

गन्धर्वराजः पुष्पदन्तः 'जगद्रक्षायै त्वं नटसि ननु वामैव विभुता' इति

तत्र स्पन्दवार्तिकम् :-

 
पादन्यासैः प्रचिन्वन् क्षितिमनिलमनुप्रणयन् प्राणवेगै-
रण

रर्णाम्
स्यानिर्णिजानस्त्रिपथगतिजलैरग्निमक्षाग्निना च

स्वर्लोकादीन् जटासंहतिहतिभिरलंभावयन् भूतनाथो

विद्याविद्योतकारी जयति घनजटामण्डलस्ताण्डवस्थः
 

 
इति । अधिकं षोडशे स्पन्दे । अभङ्गगुणतुङ्गम् । अभङ्गैः

अभज्यमानैरविनाशिभिरक्षीयमाणैर्गुणैस्तुङगमुत्कृष्टम् । नित्यज्ञानादिकं
 

खल्वीश्वरस्य प्रसिद्धम् । न विद्यते भङ्गोऽन्तो येषां तेऽभङ्गा अनन्ता
 
10