This page has been fully proofread once and needs a second look.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 

चिरन्तनमनादिमुत्पत्तिरहितम् । अज्ञानिनां विप्रकृष्टत्वादमुमित्युक्तिः

प्रणवसञ्चितनिधिम् । वेदादिस्वरेण सर्वार्थग्राहिणा संचितं
 

महार्थनिधिमित्योंकारेणोपास्यत्वाभिव्यञ्जनम् । तथाविधं परचिदम्बरनटं
 

हृदि भजे
 

परब्रह्मपक्षे
 
हरमित्युक्तार्थम् । त्रिपुरभञ्जनम् । 'पुरत्रये

क्रीडती'त्यादिश्रुतेः स्थूलसूक्ष्मकारणाख्यशरीरत्रयं पुरत्रयम् । तद्भञ्जनं

तद्बाधेन तुरीयावस्थाप्रापणम्। अनन्तकृतकङ्कणम्। 'कङ्कणःकरभूषायां

सूत्रमण्डनयोरपि' इति मेदिनी । अनन्तेनाकाशेन स्वीयानन्तस्वरूपेण वा

कृतं मण्डनं सौन्दर्यप्रसाधनं स्वस्य येन स तथा तम् । न ह्यन्तवतो

भवितुमर्हति सौन्दर्यम् । अखण्डदयं व्याख्यातम् । सोपाधिकावस्थायां

दयावत्त्वसत्त्वात्तेन रूपेण विशेषणमुपपन्नम् । अन्तरहितं -

त्रिविधपरिच्छेदशून्यम् । विरिञ्च्यादिभिर्विचिन्तितं पदं धाम यस्य तम्

तरुणचन्द्रेत्यादि सोपाधिकावस्थाविशेषणं भूतपूर्वगत्या । अथवा

तरुणचन्द्रः षोडशी कला नित्या श्रीविद्योच्यते । स्वाभिन्नया तया भूषितं

शिर उत्तमाङ्गं परमस्थानं यस्य स तथा तम् । भुजगेन्द्रपदपाठे तु

भुजगेन्द्रोऽनन्त एव । चदि आह्लादे इति धातुपाठात् तरुणचन्द्रः

परमानन्दः । तथा च अनन्त- परमानन्दमुख्यस्वरूपमिति फलितार्थो

बोध्यः । परं
व्याख्यातम् । पदविखण्डितयमम् । पदेन 'पदं

व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । तद्धाम परमं ममेत्युक्तेन

स्वस्थानेन व्यापकधाम्ना निरस्तो यमो मृत्युर्मृत्युसंसारो येन तम्

भसितमण्डिततनुम् । भसद्युतौ । ज्ञानद्युतिमण्डितस्वरूपमित्यर्थः

'विशुद्धज्ञानदेहाये'ति स्मृतेः । मदनः कामस्तत्प्रयुक्तसंसारश्च । मादयति

उन्मादयति पुरुषमिति वा मदनो विषयानन्दः । तद्वञ्चनं तत्तिरस्करणं
 
8