2023-02-23 16:24:34 by ambuda-bot
This page has not been fully proofread.
चरणशृङ्गरहितम् नटराजस्तोत्रम्
चिरन्तनमनादिमुत्पत्तिरहितम् । अज्ञानिनां विप्रकृष्टत्वादमुमित्युक्तिः ।
प्रणवसञ्चितनिधिम् । वेदादिस्वरेण सर्वार्थग्राहिणा संचितं
महार्थनिधिमित्योंकारेणोपास्यत्वाभिव्यञ्जनम् । तथाविधं परचिदम्बरनटं
हृदि भजे ।
परब्रह्मपक्षे
हरमित्युक्तार्थम् । त्रिपुरभञ्जनम् । 'पुरत्रये
क्रीडती'त्यादिश्रुतेः स्थूलसूक्ष्मकारणाख्यशरीरत्रयं पुरत्रयम् । तद्भञ्जनं
तद्बाधेन तुरीयावस्थाप्रापणम्। अनन्तकृतकङ्कणम्। 'कङ्कणःकरभूषायां
सूत्रमण्डनयोरपि' इति मेदिनी । अनन्तेनाकाशेन स्वीयानन्तस्वरूपेण वा
कृतं मण्डनं सौन्दर्यप्रसाधनं स्वस्य येन स तथा तम् । न ह्यन्तवतो
भवितुमर्हति सौन्दर्यम् । अखण्डदयं व्याख्यातम् । सोपाधिकावस्थायां
दयावत्त्वसत्त्वात्तेन रूपेण विशेषणमुपपन्नम् । अन्तरहितं -
त्रिविधपरिच्छेदशून्यम् । विरिञ्च्यादिभिर्विचिन्तितं पदं धाम यस्य तम् ।
तरुणचन्द्रेत्यादि सोपाधिकावस्थाविशेषणं भूतपूर्वगत्या । अथवा
तरुणचन्द्रः षोडशी कला नित्या श्रीविद्योच्यते । स्वाभिन्नया तया भूषितं
शिर उत्तमाङ्गं परमस्थानं यस्य स तथा तम् । भुजगेन्द्रपदपाठे तु
भुजगेन्द्रोऽनन्त एव । चदि आह्लादे इति धातुपाठात् तरुणचन्द्रः
परमानन्दः । तथा च अनन्त- परमानन्दमुख्यस्वरूपमिति फलितार्थो
बोध्यः । परं
व्याख्यातम् । पदविखण्डितयमम् । पदेन 'पदं
व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । तद्धाम परमं ममेत्युक्तेन
स्वस्थानेन व्यापकधाम्ना निरस्तो यमो मृत्युर्मृत्युसंसारो येन तम् ।
भसितमण्डिततनुम् । भसद्युतौ । ज्ञानद्युतिमण्डितस्वरूपमित्यर्थः ।
'विशुद्धज्ञानदेहाये'ति स्मृतेः । मदनः कामस्तत्प्रयुक्तसंसारश्च । मादयति
उन्मादयति पुरुषमिति वा मदनो विषयानन्दः । तद्वञ्चनं तत्तिरस्करणं
8