This page has been fully proofread once and needs a second look.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 
प्रसिद्धपुरत्रयभञ्जनकारिणमिति वा । अनन्तेन नागेन कृतं कङ्कणं येन

सः, तमनन्तकृतकङ्कणम् । अखण्डा अखण्डनीया निरुपघाता

निरन्तरप्रवाहिनी वा दया यस्य तमखण्डदयम्। अनन्तमन्तरहितम्।

आद्यन्तरहितमिति
यावत्।हरिविरिञ्चिभ्यामुपर्यधोगताभ्याम्
 
यावत्।

उभयानुपलम्भात् । विरिञ्चीति । विरिञ्चिश्च सुराणां देवानां संहतिः

समुदायश्च ताभ्यां विचिन्तितं ध्यातं पदं यस्य तम्। तरुणेति। तरुणचन्द्रः

षोडशी कला । तेन कृता भूषा भूषणं यस्य तादृशं शिरो यस्य स तथा तम्
। चन्द्रमौलिमित्यर्थः । क्वचित्तरुणचन्द्रभुजगेन्द्रमुकुटमिति पाठ: । द्वितीये

सुरसंहत्यनन्तरं पुरन्दरेत्यधिकम्। तत्र शङ्करस्य मुकुटाऽ प्रसिद्धेर्नेयार्थता

स्यात्। 'मुकुटं किरीटं पुंनपुंसकमि'ति कोशात् किरीटवाचित्वात्

जटामुकुटधारिणमित्यादीदौ जटैव मुकुटस्तद्धारिणमित्यर्थो न तु जटायां

मुकुटं धरतीति । अथवा तरुणचन्द्रसहितो भुजगेन्द्र एव मुकुटो यस्य स

तथा तम् । जटाया: सर्पेण वेष्टनान्मुकुटवत् सर्पः प्रतीयते । तत्र मणिरिव

च चन्द्रः प्रकाशत इति । उभयत्र तरुणचन्द्रशिरसमिति

तरुणचन्द्रभुजगेन्द्रशिरसमिति च पाठश्चेत् सम्यक् स्यात् । नटनार्थं

मुकुटधारणं वाऽस्तु । विरिञ्चीत्यादिना ध्येयत्वं तरुणेत्यादि
ना
तत्प्रयोजकसौन्दर्यवत्वं च सूचितं बोध्यम्। पिपर्ति पालयति जगदिति

परस्तं परम् । पदविखण्डितयमम्। पदेन पादप्रहारेण विखण्डितो नाशितो

मारितो यमो यमराजो येन तम्। मार्कण्डेयरक्षणाय लिङ्गात् प्रादुर्भूय यमो

हतः शङ्करेणेति कथानुसन्धेया । भसितमण्डिततनुं -भसितेन

चिताभस्मना मण्डिता रूषिता तनुर्यस्य तम् । मदनवञ्चनपरम्। मदनस्य

कामदेवस्य वञ्चनमत्र न्यक्करणं तत्परम् । परे तु वञ्चनशब्दस्यापभ्रंशो

'बचना' इति तथा च मदनात् स्वत्राणपरायणमित्यर्थलाभ इत्याहुः

पश्चात् स्वयमेव पार्वतीविवाहे मदनस्य स्वीकाराद्वञ्चनमात्रमुक्तम्
 
7
 
-