2023-02-23 16:24:34 by ambuda-bot
This page has not been fully proofread.
चरणशृङ्गरहितम् नटराजस्तोत्रम्
प्रसिद्धपुरत्रयभञ्जनकारिणमिति वा । अनन्तेन नागेन कृतं कङ्कणं येन
सः, तमनन्तकृतकङ्कणम् । अखण्डा अखण्डनीया निरुपघाता
निरन्तरप्रवाहिनी वा दया यस्य तमखण्डदयम्। अनन्तमन्तरहितम्।
आद्यन्तरहितमिति
हरिविरिञ्चिभ्यामुपर्यधोगताभ्याम्
यावत्।
उभयानुपलम्भात् । विरिञ्चीति । विरिञ्चिश्च सुराणां देवानां संहतिः
समुदायश्च ताभ्यां विचिन्तितं ध्यातं पदं यस्य तम्। तरुणेति। तरुणचन्द्रः
षोडशी कला । तेन कृता भूषा भूषणं यस्य तादृशं शिरो यस्य स तथा तम्
। चन्द्रमौलिमित्यर्थः । क्वचित्तरुणचन्द्रभुजगेन्द्रमुकुटमिति पाठ: । द्वितीये
सुरसंहत्यनन्तरं पुरन्दरेत्यधिकम्। तत्र शङ्करस्य मुकुटाऽ प्रसिद्धेर्नेयार्थता
स्यात्। 'मुकुटं किरीटं पुंनपुंसकमिति कोशात् किरीटवाचित्वात् ।
जटामुकुटधारिणमित्यादी जटैव मुकुटस्तद्धारिणमित्यर्थो न तु जटायां
मुकुटं धरतीति । अथवा तरुणचन्द्रसहितो भुजगेन्द्र एव मुकुटो यस्य स
तथा तम् । जटाया: सर्पेण वेष्टनान्मुकुटवत् सर्पः प्रतीयते । तत्र मणिरिव
च चन्द्रः प्रकाशत इति । उभयत्र तरुणचन्द्रशिरसमिति
तरुणचन्द्रभुजगेन्द्रशिरसमिति च पाठश्चेत् सम्यक् स्यात् । नटनार्थं
मुकुटधारणं वाऽस्तु । विरिञ्चीत्यादिना ध्येयत्वं तरुणेत्यादि
तत्प्रयोजकसौन्दर्यवत्वं च सूचितं बोध्यम्। पिपर्ति पालयति जगदिति
परस्तं परम् । पदविखण्डितयमम्। पदेन पादप्रहारेण विखण्डितो नाशितो
मारितो यमो यमराजो येन तम्। मार्कण्डेयरक्षणाय लिङ्गात् प्रादुर्भूय यमो
हतः शङ्करेणेति कथानुसन्धेया । भसितमण्डिततनुं भसितेन
चिताभस्मना मण्डिता रूषिता तनुर्यस्य तम् । मदनवञ्चनपरम्। मदनस्य
कामदेवस्य वञ्चनमत्र न्यक्करणं तत्परम् । परे तु वञ्चनशब्दस्यापभ्रंशो
'बचना' इति तथा च मदनात् स्वत्राणपरायणमित्यर्थलाभ इत्याहुः ।
पश्चात् स्वयमेव पार्वतीविवाहे मदनस्य स्वीकाराद्वञ्चनमात्रमुक्तम् ।
7
-