This page has been fully proofread once and needs a second look.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 

free from contamination of any kind. He destroys the

cycle of birth (and death). He possesses the loveliness of

Kadamba tree; wears the garment of sky (i.e. not clad by

any garments). His throat is dark like the multitude of

rainy clouds. He is the jewel in the ocean of

consciousness, the Sun that causes the blooming of the

lotus in the form of heart of wise persons. (1).
 

 
हरं
 
त्रिपुरभञ्जनमनन्तकृतकङ्कणमखण्डदयमन्तरहितं

विरिञ्चिसुरसंहतिविचिन्तितपदं तरुणचन्द्र भुजगेन्द्रमुकुटम्

परं पदविखण्डितयमं भसितमण्डिततनुं मदनवञ्चनपरं

चिरन्तनममुं प्रणवसञ्चितनिधिं परचिदम्बरनटं हृदि भजे ॥२
 

 
('विरिञ्चिसुरसंहितपुरन्दरविचिन्तितपदं तरुणचन्द्रमुकुटम्' इति

क्वचित्पाठः । तत्रैव 'तरुणचन्द्रशिरसमि'त्यन्यत्र । विरञ्चि
-
सुरसंहतिविचिन्तितपदं तरुणचन्द्रभुजगेन्द्रशिरसम्'इत्यपरत्र ।)
 

 
एवं वर्णितस्य नटराजस्य प्रणवविषयत्वेन ध्यानात् सप्रणवजपाल्लभ्यं

लाभमाह - हरमिति । दुःखहरणम्, आसुरभावभञ्जनं, दयापीयूषवर्षणं,

यमखण्डनं, कामदमनं चात्र फलत्वेनोच्यन्ते । तत्र शिष्टाचारप्रमाणत्वार्थं

विरिञ्च्यादिचिन्तितत्वमुच्यते । स्वरूपमाहात्म्यबोधनार्थमितरविशेषणम्

हरमिति । हरत्यज्ञानं, हरति दुःखं, हरति प्रलयकाले जगदुत वा हरस्तम्

इदमेव वा विशेष्यपदम् । तदा पूर्वत्रानुकृष्य योज्यम् । चिदम्बरनाम्ना

प्रसिद्धे स्थले नटराजरूपेण स्थितं शङ्करमुद्दिश्य भजनोक्तिरिति पक्षे तद्

विशेषणपदम् । त्रिपुरभञ्जनं त्रिपुरासुरभञ्जनम् । त्रिपुरासुरस्य
 
6