This page has been fully proofread once and needs a second look.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 

श्रुतेरेकं च पदं नि इति न्यग्भूततया कुञ्चितमधःस्थितं, तथा चोदञ्चितं च

त्रयं निकुञ्चितं चैकं पदं यस्य स तथा तमित्यर्थः । झलेति । झलझलमिति

चलिता मञ्जव: कटका: सेना यस्य स तम् । 'असंख्याता सहस्राणि ये

रुद्रा अधिभूम्याम्' इत्यादि श्रुतिवचनादनन्तरुद्रसत्त्वमवगम्यते । ते

नानाशब्दरूपा इति शब्दब्रह्मवादिनः । अस्माकं प्रवाहरूपेणोत्पद्यमाना

आकाशाद्याः पदार्था एवेति विशेषः । पतञ्जलीति । प्राग्वदर्थः । यद्वा

पतन्नञ्जलिर्यस्मिन् परमेश्वरे नमस्कार्यत्वात् स च सा दृक् च चैतन्यलक्षणा

तस्या अञ्जनं स्वस्यैव स्वयं व्यञ्जनरूपं स्वयंप्रकाशमित्यर्थः

पतञ्जलेर्मम ज्ञानदृशं व्यञ्जयतीति वा । अनञ्जनं -मायाकल्मषरहितम्
। 'निरवद्यं निरञ्जनमि'ति श्रुतेः । अचञ्चलं - स्वावस्थाप्रच्युतिरहितम्

निष्क्रियमित्यपि । तादृशं पदं स्वरूपं यस्य । जननेति स्पष्टम्

कदम्बरुचिं कदम्बवद् रुचिर्यस्य । विराड् हिरण्यगर्भादिरूपेण स्थितः किल

विश्वतैजससमष्टिकदम्बतुल्यःय:। वस्तुतो न कदम्बत्वमिति द्रष्टव्यम्।

अम्बरवसम् हृदयाकाशवासिनम् । 'तस्मिन् यदन्तस्तदन्वेष्टव्यमि'त्यादि

श्रुतेः । अम्बरस्य वसो वासो यत्रेति वा 'आकाश ओतश्च प्रोतश्चेति
'ति
श्रुतेः । परमम् । परमम्। परा मा ज्ञानं यस्य तम् । अथ परा यया

तदक्षरमवगम्यत' इति श्रुतेः। श्रेष्ठमिति वा । अम्बुदेति

उद्गिरणनिगरणस्थानं गलः । स परमात्मा जगदुद्गिरति सृष्टिकाले

तत्स्थानमम्बुदकदम्बकविडम्बकम् । तमोमय्या मायया स्थूलजगदुत्पत्तेः

'श्यामाच्छबलं प्रपद्य' इत्यादिश्रुतेश्च । मायावच्छिन्नपरमेश्वरः

सृष्टिलयहेतुः स एव गलो यस्य तमित्यर्थः। चिदम्बुधिमणि - चेतनानामपि

चेतनत्वात् । बुधहृदम्बुजरविम् । उक्तार्थः । परेति । परात्परः । चिदम्बरं

ज्ञानाकाशस्वरूपमयं च जगदाकारेण विवर्तत इति नटवन्नटस्तं

परचिदम्बरनटं हृदि भजे
 
4