This page has not been fully proofread.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 
श्रुतेरेकं च पदं नि इति न्यग्भूततया कुञ्चितमधःस्थितं, तथा चोदञ्चितं च
त्रयं निकुञ्चितं चैकं पदं यस्य स तथा तमित्यर्थः । झलेति । झलझलमिति
चलिता मञ्जव: कटका: सेना यस्य स तम् । 'असंख्याता सहस्राणि ये
रुद्रा अधिभूम्याम्' इत्यादि श्रुतिवचनादनन्तरुद्रसत्त्वमवगम्यते । ते
नानाशब्दरूपा इति शब्दब्रह्मवादिनः । अस्माकं प्रवाहरूपेणोत्पद्यमाना
आकाशाद्याः पदार्था एवेति विशेषः । पतञ्जलीति । प्राग्वदर्थः । यद्वा
पतन्नञ्जलिर्यस्मिन् परमेश्वरे नमस्कार्यत्वात् स च सा दृक् च चैतन्यलक्षणा
तस्या अञ्जनं स्वस्यैव स्वयं व्यञ्जनरूपं स्वयंप्रकाशमित्यर्थः ।
पतञ्जलेर्मम ज्ञानदृशं व्यञ्जयतीति वा । अनञ्जनं -मायाकल्मषरहितम्
। 'निरवद्यं निरञ्जनमि'ति श्रुतेः । अचञ्चलं - स्वावस्थाप्रच्युतिरहितम् ।
निष्क्रियमित्यपि । तादृशं पदं स्वरूपं यस्य । जननेति स्पष्टम् ।
कदम्बरुचिं कदम्बवद् रुचिर्यस्य । विराड् हिरण्यगर्भादिरूपेण स्थितः किल
विश्वतैजससमष्टिकदम्बतुल्यः। वस्तुतो न कदम्बत्वमिति द्रष्टव्यम्।
अम्बरवसम् हृदयाकाशवासिनम् । 'तस्मिन् यदन्तस्तदन्वेष्टव्यमि'त्यादि
श्रुतेः । अम्बरस्य वसो वासो यत्रेति वा 'आकाश ओतश्च प्रोतश्चेति
श्रुतेः । परमम् । परा मा ज्ञानं यस्य तम् । अथ परा यया
तदक्षरमवगम्यत' इति श्रुतेः। श्रेष्ठमिति वा । अम्बुदेति ।
उद्गिरणनिगरणस्थानं गलः । स परमात्मा जगदुद्गिरति सृष्टिकाले ।
तत्स्थानमम्बुदकदम्बकविडम्बकम् । तमोमय्या मायया स्थूलजगदुत्पत्तेः ।
'श्यामाच्छबलं प्रपद्य' इत्यादिश्रुतेश्च । मायावच्छिन्नपरमेश्वरः
सृष्टिलयहेतुः स एव गलो यस्य तमित्यर्थः। चिदम्बुधिमणि - चेतनानामपि
चेतनत्वात् । बुधहृदम्बुजरविम् । उक्तार्थः । परेति । परात्परः । चिदम्बरं
ज्ञानाकाशस्वरूपमयं च जगदाकारेण विवर्तत इति नटवन्नटस्तं
परचिदम्बरनटं हृदि भजे ॥ १ ॥
 
4