This page has been fully proofread once and needs a second look.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 

रुचिरिव रुचिर्यस्य स कदम्बरुचिस्तम् । कदम्बवनचारिणी हि देवी

कदम्बमूलाश्रयी च श्रीकृष्णः । तत्राश्रयीभूतकदम्बसमत्वमीशस्येति

अम्बरवसमिति । अम्बरमाकाशमेव वसो वसनं यस्य तं दिग्वाससं

निरावरणमिति यावत्। अम्बुदेति । अम्बुदानां मेघानां कदम्बकं समूहं

विडम्बयति अनुकरोतीति तथा तादृशो गलौ यस्य स तं नीलकण्ठमित्यर्थः
। मरणहेतुगरलोपमकर्मापहारकत्वं दयावत्त्वं चानेन सूचितं यतो

जननभञ्जनकरत्वमुपपद्यते। परमं श्रेष्ठं महेशत्वाद् महादेवत्वात्।

चिदम्बुधिमणिम् अभास्वरशुक्लवर्णजलार्णवोज्ज्वलताकारिणोऽन्ये मणयः
। अयं पुनश्चैतन्यसागरोज्ज्वलताकारीति परमतेजःस्वरूपतोक्ता भवति।

तथा च श्रुतिः ' चेतनश्चेतनानामिति 'ति। यद्वा सागरसमव्यापकचैतन्य-

प्रकाशोद्भावकमणिमित्यर्थः।
 

 
बुधेति। बुधानां विदुषां
हृदयाम्बुजव्याकोचकत्वात्तस्य
 
बुधेति
 
रविमिव
 
बुधानां
 
रविमित्यर्थः।
 
एवंभूतं
परचिदम्बरनटं परस्मिन् श्रेष्ठे चिदम्बरे। तन्नामस्थाने नटलीति तथा तं हृदि

भजे । भजेति लोण्मध्यमपुरुषप्रयोगो वा सर्वत्र
 

 
व्याख्यान्तरम्
गम्भीरार्थं वचोजातं यन्महर्षेः पतञ्जलेः।
तत्प्रकारान्तरेणापि व्याचक्षे
विदुषां
 
एवंभूतं
 
व्याख्यान्तरम्
 
गम्भीरार्थं वचोजातं यन्महर्षेः
मुदे॥१
 
भगवतः
पतञ्जलेः ।
लेर्वचनस्यातिगभीरत्वात्प्रकारान्तरेणापि व्याचक्षे विदुषां मुदे ॥ १
 
भगवतः
 
पतञ्जलेर्वचनस्यातिगभीरत्वात्प्रकारान्तरेणापि व्या
ख्यायते

ब्रह्मपरा अपि भवन्त्येते श्लोकाः । सदञ्चितं सद्भिर्ब्रह्मविद्भिः

पूज्यतयोपगतम् । सद्रूपताप्राप्तमिति वा सद्रूपेण सर्वत्रावगतमिति वा

उदञ्चितेति । उदिति ब्रह्मनाम । तद्रूपेणाञ्चितं गतम् । 'त्रिपादस्यामृतं

दिवि' इति श्रुतेः । त्रिपादुदञ्चितम् । 'पादोऽस्य विश्वा भूतानि' इति
 
3