This page has not been fully proofread.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 
रुचिरिव रुचिर्यस्य स कदम्बरुचिस्तम् । कदम्बवनचारिणी हि देवी ।
कदम्बमूलाश्रयी च श्रीकृष्णः । तत्राश्रयीभूतकदम्बसमत्वमीशस्येति ।
अम्बरवसमिति । अम्बरमाकाशमेव वसो वसनं यस्य तं दिग्वाससं
निरावरणमिति यावत्। अम्बुदेति । अम्बुदानां मेघानां कदम्बकं समूहं
विडम्बयति अनुकरोतीति तथा तादृशो गलौ यस्य स तं नीलकण्ठमित्यर्थः
। मरणहेतुगरलोपमकर्मापहारकत्वं दयावत्त्वं चानेन सूचितं यतो
जननभञ्जनकरत्वमुपपद्यते। परमं श्रेष्ठं महेशत्वाद् महादेवत्वात्।
चिदम्बुधिमणिम् अभास्वरशुक्लवर्णजलार्णवोज्ज्वलताकारिणोऽन्ये मणयः
। अयं पुनश्चैतन्यसागरोज्ज्वलताकारीति परमतेजःस्वरूपतोक्ता भवति।
तथा च श्रुतिः' चेतनश्चेतनानामिति । यद्वा सागरसमव्यापकचैतन्य-
प्रकाशोद्भावकमणिमित्यर्थः।
 

 
हृदयाम्बुजव्याकोचकत्वात्तस्य
 
बुधेति
 
रविमिव
 
बुधानां
 
रविमित्यर्थः।
 
परचिदम्बरनटं परस्मिन् श्रेष्ठे चिदम्बरे। तन्नामस्थाने नटलीति तथा तं हृदि
भजे । भजेति लोण्मध्यमपुरुषप्रयोगो वा सर्वत्र ।
 
विदुषां
 
एवंभूतं
 
व्याख्यान्तरम्
 
गम्भीरार्थं वचोजातं यन्महर्षेः पतञ्जलेः ।
तत्प्रकारान्तरेणापि व्याचक्षे विदुषां मुदे ॥ १
 
भगवतः
 
पतञ्जलेर्वचनस्यातिगभीरत्वात्प्रकारान्तरेणापि व्याख्यायते ।
ब्रह्मपरा अपि भवन्त्येते श्लोकाः । सदञ्चितं सद्भिर्ब्रह्मविद्भिः
पूज्यतयोपगतम् । सद्रूपताप्राप्तमिति वा सद्रूपेण सर्वत्रावगतमिति वा ।
उदञ्चितेति । उदिति ब्रह्मनाम । तद्रूपेणाञ्चितं गतम् । 'त्रिपादस्यामृतं
दिवि' इति श्रुतेः । त्रिपादुदञ्चितम् । 'पादोऽस्य विश्वा भूतानि' इति
 
3