This page has not been fully proofread.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 
इत्यमरात् 'अञ्चु गतिपूजनयोरिति धातुपाठाच्च। पूजनप्रसन्नश्च
नटनमकरोत् । प्रार्थनयोपगतमिति वा । सद्गुणाञ्चितमिति वा ।
प्रशस्तकर्माञ्चितमिति वा। सर्वत्र पूजार्थतासत्त्वाद् 'अञ्चे:
पूजायामि' तीट्' नाञ्चे:
 
पूजायामि'ति नलोपाभावश्च
 
द्रष्टव्यः ।
 
उदञ्चितनिकुञ्चितपदम् उदञ्चितमुद्गतम् उर्ध्वमुत्थापितमिति यावत्,
निकुञ्चितं वक्रीभूतं च पदमेकं यस्य स तथा तम्। अत्रापि
पूजार्थताविवक्षया रूपम् । स्वार्थे णिचोऽन्तर्भावणाद्वा। उद्गमितमिति
णिजर्थविवक्षणाद्वा । नटनार्थं पादोदञ्चनादिकं प्रसिद्धम् । तत एव
झलंझलमिति । अव्यक्तशब्दानुकरणम् । झलंझलमिति शब्दयुक्तं यथा
स्यात्तथा चलिते मञ्जुनी कटके यस्य तम् ।'कटकस्त्वद्रिनितम्बे बाहुभूषणे
सेनायां राजधान्यां च' इति हेमः। रुद्रसेनार्थकत्वमपि ततः शक्यं ग्रहीतुम्।
पतञ्जलिदृगञ्जनम् । पतञ्जलेः स्वस्य दृशो ज्ञाननेत्रस्याञ्जनं
दोषापहारकम् । यथाऽञ्जनविशेषेण यक्षरक्ष:प्रभृतिदर्शनं यथा वा
मण्डूकवसाञ्जनेन वंशोरगदर्शनं तथाऽयमञ्जनविशेषो येन सर्वत्र
शिवदर्शनमिति भावः । अनञ्जनं निर्दोषम् । दृगञ्जनमनञ्जनम् इति
विरोधाभासः । परिहार उक्तः । पतन्नञ्जलिर्यस्य परमेश्वरं प्रति स
पतञ्जलिः शकन्ध्वादित्वाट्टेः
पररूपम् इति पक्षाश्रयणे
सर्वभक्तजनदृगञ्जनम् इत्यर्थलाभोऽपि
भवति
 
उदञ्चितपदत्वेऽप्यचञ्चलं पदं यस्य स
 
तमचञ्चलपदम् ।
स्वावस्थाप्रच्युतिरहितं पदं स्वरूपमित्यर्थकरणाद् विरोधपरिहारः । भजे
इति वक्तव्यस्य भजनस्य प्रयोजनं दर्शयन् हेतुगर्भविशेषणमाह
जननभञ्जनकरमिति। जन्मसंसारनिवर्तकमित्यर्थः। किं च कदम्बरुचिम् ।
कदम्बो वृक्षविशेषः । 'प्रौढाः कदम्बानिलाः' 'प्रौढपुष्पैः कदम्बैः'
इत्यादिरूपेंण कविभिर्वर्ण्यते । वृत्तसुगन्धिपुष्पवान् उन्नतशाखो वृक्षस्तस्य
 
21