Proofing

✦

This page has been fully proofread once and needs a second look.

भगवत्पतञ्जलिप्रणीतम् चरणशृङ्गरहितम्
नटराजस्तोत्रम्
 
आचार्य महामण्डलेश्वर-श्रीकाशिकानन्द-स्वामीकृत-चन्द्रकलाव्याख्यासहितम्
 
एक: सन् बहुधा योऽभून्नटवज्जगदात्मना ।
तं वन्दे सचिदानन्दं नटराजं महेश्वरम् ॥
 
सदञ्चितमुदञ्चितनिकुञ्चितपदं झलझलच ञ्चलितमञ्जुकटकम्
पतञ्जलिदृगञ्जनसमनञ्जनमचञ्चलपदं जननभञ्जनकरमम्।
कदम्बरुचिमम्बरवसं परममम्बुदकदम्बकविडम्बकगलम्
चिदम्बुधिमणिणिं बुधहहृदम्बुजरविं परचिदम्बरनटं हृदि भजे ॥१॥।
 
अथ संसारजलनिधिनिमग्नानुद्रधर्तुकामो भगवान् पतञ्जलिस्तुष्टाव
भगवन्तं नटराजं शङ्करं लोकानामुपकृतये तां स्तुतिं निबबन्ध च।
तस्येदमक्षरार्थव्याख्यानं संक्षेपेण क्रियते। अत्र प्रथमं
अत्र प्रथमं
चतुर्भिः
श्लोकैर्नटराजस्य नटनपरस्य शङ्करस्य स्वरूपं तत्कार्यं चाह । तत्र प्रथमे
स्पष्टं नटस्वरूपवर्णनं चतुथे च । द्वितीये अनन्तकृतकङ्कणमिति तृतीये
दशदिगन्तरविजृम्भितकरमिति च विशेषणतो नटस्वरूपं संसूच्य तस्य
तच्चिन्तनस्य च फलं निरवर्णयत् । तत्र प्रथमं नटराजस्वरूपं वर्णयन्नेव
स्तौति सदञ्चितेत्यादि । चिदम्बरनटं भज इत्यन्वयः । कीददृशम् ?
सदञ्चितं सद्भिः सुधीभिरञ्चितं पूजितम् । '। ‘सन् सुधी: कोवितोदो बुध'
 

 
1