This page has been fully proofread once and needs a second look.


अचिन्त्यमलिवृन्दरुचिबन्धुरगलं कुरितकुन्दनिकुरम्बधवलं
 

मुकुन्दसुरवृन्दबलहन्तृकृतवन्दनलसन्तमहिकुण्डलधरम्

अकम्पमनुकम्पितरतिं सुजनमङ्गलनिधिं गजहरं पशुपति

धनञ्जयनुतं प्रणतरञ्जनपरं परचिदम्बरनटं हृदि भजे ॥६
 

 
परं सुरवरं पुरहरं पशुपतिं जनितदन्तिमुखषण्मुखममुं

मृडं कनकपिङ्गलजटं सनकपड्कजरविं सुमनसं हिमरुचिम्

असङ्गमनसं जलधिजन्मगरलं कवलयन्तमतुलं गुणनिधिं

सनन्दवरदं शमितमिन्दुवदनं परचिदम्बरनटं हृदि भजे ॥७
 

 
अजं क्षितिरथं भुजगपुङ्गवगुणं कनकशृङ्गिधनुषं करलसत्

कुरङ्गपृथुटङ्कपरशुं रुचिरकुङ्कुमरुचि डमरुकं च दधतम्

मुकुन्दविशिखं नमदवन्ध्यफलदं निगमवृन्दतुरगं निरुपमं

सचण्डिकममुं झटितिसंहृतपुरं परचिदम्बरनटं हृदि भजे ॥८
 

 
अनङ्गपरिपन्थिनमजं क्षितिधुरन्धरमलं करुणयन्तमखिलं

. ज्वलन्तमनलं दधतमन्तकरिपुं सततमिन्द्रमुखवन्दितपदम्

उदञ्चदरविन्दकुलबन्धुशतबिम्बरुचिसंहतिसुगन्धिवपुषं

पतञ्जलिनुतं प्रणवपञ्ञरशुकं परचिदम्बरनटं हृदि भजे ॥ ९
 

 
इति स्तवममुं भुजगपुङ्गवकृतं प्रतिदिनं पठति यः कृतमुखः

सद:प्रभुपदद्वितयदर्शनपदं सुललितं चरणशृङ्गरहितम्

सरः प्रभवसम्भवहरित्पतिहरिप्रमुखदिव्यनुतशङ्करपदं

स गच्छति परं न तु जनुर्जलनिधिं परमदुःखजनकं दुरितदम् ॥ १०
 
***