Proofing

✦

This page has been fully proofread once and needs a second look.


अचिन्त्यमलिवृन्दरुचिबन्धुरगलं कुरितकुन्दनिकुरम्बधवलं
 

मुकुन्दसुरवृन्दबलहन्तृकृतवन्दनलसन्तमहिकुण्डलधरम् ।

अकम्पमनुकम्पितरतिं सुजनमङ्गलनिधिं गजहरं पशुपति

धनञ्जयनुतं प्रणतरञ्जनपरं परचिदम्बरनटं हृदि भजे ॥६
 

 
परं सुरवरं पुरहरं पशुपतिं जनितदन्तिमुखषण्मुखममुं

मृडं कनकपिङ्गलजटं सनकपड्कजरविं सुमनसं हिमरुचिम् ।

असङ्गमनसं जलधिजन्मगरलं कवलयन्तमतुलं गुणनिधिं

सनन्दवरदं शमितमिन्दुवदनं परचिदम्बरनटं हृदि भजे ॥७
 

 
अजं क्षितिरथं भुजगपुङ्गवगुणं कनकशृङ्गिधनुषं करलसत्

कुरङ्गपृथुटङ्कपरशुं रुचिरकुङ्कुमरुचि डमरुकं च दधतम् ।

मुकुन्दविशिखं नमदवन्ध्यफलदं निगमवृन्दतुरगं निरुपमं

सचण्डिकममुं झटितिसंहृतपुरं परचिदम्बरनटं हृदि भजे ॥८
 

 
अनङ्गपरिपन्थिनमजं क्षितिधुरन्धरमलं करुणयन्तमखिलं

. ज्वलन्तमनलं दधतमन्तकरिपुं सततमिन्द्रमुखवन्दितपदम् ।

उदञ्चदरविन्दकुलबन्धुशतबिम्बरुचिसंहतिसुगन्धिवपुषं

पतञ्जलिनुतं प्रणवपञ्ञरशुकं परचिदम्बरनटं हृदि भजे ॥ ९
 

 
इति स्तवममुं भुजगपुङ्गवकृतं प्रतिदिनं पठति यः कृतमुखः

सद:प्रभुपदद्वितयदर्शनपदं सुललितं चरणशृङ्गरहितम्
।
सरः प्रभवसम्भवहरित्पतिहरिप्रमुखदिव्यनुतशङ्करपदं

स गच्छति परं न तु जनुर्जलनिधिं परमदुःखजनकं दुरितदम् ॥ १०
 
***