This page has not been fully proofread.

अचिन्त्यमलिवृन्दरुचिबन्धुरगलं कुरितकुन्दनिकुरम्बधवलं
 
मुकुन्दसुरवृन्दबलहन्तृकृतवन्दनलसन्तमहिकुण्डलधरम् ।
अकम्पमनुकम्पितरतिं सुजनमङ्गलनिधिं गजहरं पशुपति
धनञ्जयनुतं प्रणतरञ्जनपरं परचिदम्बरनटं हृदि भजे ॥६
 
परं सुरवरं पुरहरं पशुपतिं जनितदन्तिमुखषण्मुखममुं
मृडं कनकपिङ्गलजटं सनकपड्कजरविं सुमनसं हिमरुचिम् ।
असङ्गमनसं जलधिजन्मगरलं कवलयन्तमतुलं गुणनिधिं
सनन्दवरदं शमितमिन्दुवदनं परचिदम्बरनटं हृदि भजे ॥७
 
अजं क्षितिरथं भुजगपुङ्गवगुणं कनकशृङ्गिधनुषं करलसत्
कुरङ्गपृथुटङ्कपरशुं रुचिरकुङ्कुमरुचि डमरुकं च दधतम् ।
मुकुन्दविशिखं नमदवन्ध्यफलदं निगमवृन्दतुरगं निरुपमं
सचण्डिकममुं झटितिसंहृतपुरं परचिदम्बरनटं हृदि भजे ॥८
 
अनङ्गपरिपन्थिनमजं क्षितिधुरन्धरमलं करुणयन्तमखिलं
. ज्वलन्तमनलं दधतमन्तकरिपुं सततमिन्द्रमुखवन्दितपदम् ।
उदञ्चदरविन्दकुलबन्धुशतबिम्बरुचिसंहतिसुगन्धिवपुषं
पतञ्जलिनुतं प्रणवपञरशुकं परचिदम्बरनटं हृदि भजे ॥ ९
 
इति स्तवममुं भुजगपुङ्गवकृतं प्रतिदिनं पठति यः कृतमुखः
सद:प्रभुपदद्वितयदर्शनपदं सुललितं चरणशृङ्गरहितम्
सरः प्रभवसम्भवहरित्पतिहरिप्रमुखदिव्यनुतशङ्करपदं
स गच्छति परं न तु जनुर्जलनिधिं परमदुःखजनकं दुरितदम् ॥ १०
 
***