This page has been fully proofread once and needs a second look.

भगवत्पतञ्जलिप्रणीतम्
चरणशृङ्गरहितं नटराजस्तोत्रम्

सदञ्चितमुदञ्चितनिकुञ्चितपदं झलझलञ्चलितमञ्जुकटकम्
पतञ्जलिदृगञ्जनमनञ्जनमचञ्चलपदं जननभञ्जनकरम्।
कदम्बरुचिमम्बरवसं परममम्बुदकदम्बकविडम्बकगलम्
चिदम्बुधिमणिं बुधहृदम्बुजरविं परचिदम्बरनटं हृदि भजे॥१
 
हरं त्रिपुरभञ्जनमनन्तकृतकङ्कणमखण्डदयमन्तरहितं
विरिञ्चिसुरसंहतिविचिन्तितपदं तरुणचन्द्रभुजगेन्द्रमुकुटम् ।
परं पदविखण्डितयमं भसितमण्डिततनुं मदनवञ्चनपरं
चिरन्तनममुं प्रणवसञ्चितनिधिं परचिदम्बरनटं हृदि भजे॥२
 
अवन्तमखिलं जगदभङ्गगुणतुङ्गममलं धृतविधुं सुरसरित्-
तरङ्गनिकुरम्बधृतिलम्पटजटं शमनदम्भसुहरं भवहरम् ।
शिवं दशदिगन्तरविजृम्भितकरं करलसन्मृगशिशुं पशुपतिं
हरं शशिधनञ्जयपतङ्गनयनं परचिदम्बरनटं हृदि भजे॥३
 
अनन्तनवरत्नविलसत्कटककिङ्किणिझलंझलझलंझलरवं
मुकुन्दविधिहस्तगतमद्दललयध्वनिधिमिद्धिमितनर्तनपदम्।
शकुन्तरथबर्हिरथ नन्दि(दन्ति)मुखशृङ्गिरिटिभृङ्गिगणसङ्घनिकटम्
सनन्दसनकप्रमुखवन्दितपदं परचिदम्बरनटं हृदि भजे॥४
 
अनन्तमहसं त्रिदशवन्द्यचरणं मुनिहृदन्तरवसन्तममलम्
कबन्धवियदिन्द्ववनिगन्धवहवह्निमखबन्धुरविमञ्जुवपुषम्।
अनन्तविभवं त्रिजगदन्तरमणिं त्रिनयनं त्रिपुरखण्डनपरम्
सनन्दमुनिवन्दितपदं सकरुणं परचिदम्बरनटं हृदि भजे ॥५