This page has been fully proofread once and needs a second look.

भगवत्पतञ्जलिप्रणीतम्
चरणशृङ्गरहितम् नटराजस्तोत्रम्
 

सदञ्चितमुदञ्चितनिकुञ्चितपदं झलझलञ्चलितमञ्जुकटकम्

पतञ्जलिदृगञ्जनमनञ्जनमचञ्चलपदं जननभञ्जनकरम्

कदम्बरुचिमम्बरवसं परममम्बुदकदम्बकविडम्बकगलम्

चिदम्बुधिमणिणिं बुधहृदम्बुजरविं परचिदम्बरनटं हृदि भजे ॥१
 

 
हरं त्रिपुरभञ्जनमनन्तकृतकङ्कणमखण्डदयमन्तरहितं
 

विरिञ्चिसुरसंहतिविचिन्तितपदं तरुणचन्द्रभुजगेन्द्रमुकुटम् ।

परं पदविखण्डितयमं भसितमण्डिततनुं मदनवञ्चनपरं

चिरन्तनममुं प्रणवसञ्चितनिधिं परचिदम्बरनटं हृदि भजे ॥२
 

 
अवन्तमखिलं जगदभङ्गगुणतुङ्गममलं धृतविधुं सुरसरित्-

तरङ्गनिकुरम्बधृतिलम्पटजटं शमनदम्भसुहरं भवहरम् ।

शिवं दशदिगन्तरविजृम्भितकरं करलसन्मृगशिशुं पशुपतिं

हरं शशिधनञ्जयपतङ्गनयनं परचिदम्बरनटं हृदि भजे ॥३
 

 
अनन्तनवरत्नविलसत्कटककिङ्किणिझलंझलझलंझलरवं

मुकुन्दविधिहस्तगतमद्दललयध्वनिधिमिद्धिमितनर्तनपदम्
 

शकुन्तरथबर्हिरथ नन्दि(दन्ति)मुखशृङ्गिरिटिभृङ्गिगणसङ्घनिकटम्

सनन्दसनकप्रमुखवन्दितपदं परचिदम्बरनटं हृदि भजे
 

 
अनन्तमहसं त्रिदशवन्द्यचरणं मुनिहृदन्तरवसन्तममलम्

कबन्धवियदिन्द्ववनिगन्धवहवह्निमबन्धुरविमञ्जुवपुषम्

अनन्तविभवं त्रिजगदन्तरमणिणिं त्रिनयनं त्रिपुरखण्डनपरम्

सनन्दमुनिवन्दितपदं सकरुणं परचिदम्बरनटं हृदि भजे ॥५