Proofing

✦

This page has been fully proofread once and needs a second look.

भगवत्पतञ्जलिप्रणीतम्
चरणशृङ्गरहितम् नटराजस्तोत्रम्
 

सदञ्चितमुदञ्चितनिकुञ्चितपदं झलझलञ्चलितमञ्जुकटकम्

पतञ्जलिदृगञ्जनमनञ्जनमचञ्चलपदं जननभञ्जनकरम् ।

कदम्बरुचिमम्बरवसं परममम्बुदकदम्बकविडम्बकगलम्

चिदम्बुधिमणिणिं बुधहृदम्बुजरविं परचिदम्बरनटं हृदि भजे ॥१
 

 
हरं त्रिपुरभञ्जनमनन्तकृतकङ्कणमखण्डदयमन्तरहितं
 

विरिञ्चिसुरसंहतिविचिन्तितपदं तरुणचन्द्रभुजगेन्द्रमुकुटम् ।

परं पदविखण्डितयमं भसितमण्डिततनुं मदनवञ्चनपरं

चिरन्तनममुं प्रणवसञ्चितनिधिं परचिदम्बरनटं हृदि भजे ॥२
 

 
अवन्तमखिलं जगदभङ्गगुणतुङ्गममलं धृतविधुं सुरसरित्-

तरङ्गनिकुरम्बधृतिलम्पटजटं शमनदम्भसुहरं भवहरम् ।

शिवं दशदिगन्तरविजृम्भितकरं करलसन्मृगशिशुं पशुपतिं

हरं शशिधनञ्जयपतङ्गनयनं परचिदम्बरनटं हृदि भजे ॥३
 

 
अनन्तनवरत्नविलसत्कटककिङ्किणिझलंझलझलंझलरवं

मुकुन्दविधिहस्तगतमद्दललयध्वनिधिमिद्धिमितनर्तनपदम् ।
 

शकुन्तरथबर्हिरथ नन्दि(दन्ति)मुखशृङ्गिरिटिभृङ्गिगणसङ्घनिकटम्

सनन्दसनकप्रमुखवन्दितपदं परचिदम्बरनटं हृदि भजे ॥ ४
 

 
अनन्तमहसं त्रिदशवन्द्यचरणं मुनिहृदन्तरवसन्तममलम्

कबन्धवियदिन्द्ववनिगन्धवहवह्निमनखबन्धुरविमञ्जुवपुषम् ।

अनन्तविभवं त्रिजगदन्तरमणिणिं त्रिनयनं त्रिपुरखण्डनपरम्

सनन्दमुनिवन्दितपदं सकरुणं परचिदम्बरनटं हृदि भजे ॥५