This page has not been fully proofread.

॥ नराभरणम् ॥
 
दन्ताः स(विश्लथ)दन्ताः केशा : (काश ) प्रसूनसङ्काशाः ।
 
नयनं तमसामयनं तथाऽपि चित्तं धनाङ्गनायत्तम् ॥ २९७ ॥
 
आशा नाम मनुष्याणां काचिदाश्चर्यशृङ्खला ।
 
यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति कुत्रचित् (बद्धवत् ) ॥ २९८ ॥
 
आशापिशाचिकाविष्टः पुरतो यस्य कस्यचित् ।
 
वन्दते निन्दति स्तौति रोदिति प्रहसत्यपि ॥ २९९ ॥
 
आशातुरगमारुह्य नित्यं धावति याचकः ।
 
न चार्तिः न श्रमो ह्यस्य न गतौ ना (वा) पि मन्दता ॥ ३०० ॥
प्रातः क्षालितलोचनः करतलोदञ्च पवित्राङ्कुरः
 
तत्तत्स्था नक्कृतत्रि.
 
॥ ३०१ ॥
 
........
 
............
 
अत्र मुद्रणसमये प्रमादतः पतितं श्लोकद्वयम् अधोमुद्रितं
४८ पृष्ठे १३३लोकानन्तरं संयोज्य पठनीयम् -
लुब्धानां याचकश्शत्रुः मूर्खाणां न्यायबोधकः ।
जारिणीनां पतिश्शत्रुः चोराणां च निशाकरः ॥
 
८३
 
किं जन्मना भवति विप्रतया विना चे -
 
द्विद्वत्तया रहितया किमु विप्रजात्या ।
विद्वत्तयापि शमवर्जितया तया किं
 
किं वा शमेन हरिभक्तिविवर्जितेन ॥
 
* मद्रशासकीय हस्तलिखित कोश ( गारस्थ D. 12050 मातृकामादाय प्रकाशित
मिदम् । तत्रैतावदेवोपलभ्यते ।