This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa" text="A" n="289">
कण्ठादूर्ध्वं विनिर्यान्ति प्राणा याच्ञाक्षरैस्सह ।

ददामीत्यक्षरैर्दातुः पुनः श्रोत्राद्विशन्ति ते ॥ २८९ ॥
 
</verse>
<verse lang="sa" text="A" n="290">
मीयतां कथमपीप्सितमेषां दीयतां द्रुतमयाचितमेव ।

तत् (तं) धिगस्तु कलयन्नपि वाञ्छाम् अर्थिवागवसरं सहते यः ॥ २०० ॥
 
</verse>
<verse lang="sa" text="A" n="291">
याचमानज(न)मानसवृत्तेः पूरणाय बत जन्म न यस्य ।

तेन भूमिरतिभारवतीयं न द्रुमैर्न गिरिभिर्न समुद्रैः ॥ २९१ ॥
 
</verse>
<verse lang="sa" text="A" n="292">
जलधिजलान्ता नद्यः स्त्रीभेदान्तानि बन्धुहृदयानि ।

पिशुनजनान्तं गुह्यं दुष्पुत्रान्तानि सज्जनकुलानि ॥ २९२ ॥
 
</verse>
<verse lang="sa" text="A" n="293">
अप्रार्थितानि दुःखानि यथैवाऽऽयान्ति देहिनाम् ।

सुखान्यपि तथाऽऽयान्ति दैन्यमत्रातिरिच्यते ॥ २९३ ॥
 
</verse>
<verse lang="sa" text="A" n="294">
नीचं नमन्ति नियमेन मृषा वदन्ति

भारं वहन्ति धनिनां वशगा भवन्ति ।

पूरं तरन्ति जलधेर्वियदुत्पतन्ति

प्रादेशकुक्षिपरिपूरणपारवश्यात् ॥ २९४ ॥
 
</verse>
<verse lang="sa" text="A" n="295">
कृ(तृ)ष्णे कृष्णेऽपि ते शक्तिः दु(दृ)ष्टा मर्त्येषु का कथा ।

त्रैलोक्यं(य) व्यापि यद्रूपं (तद्रूपं वामनीकृतम्) ॥ २९५ ॥
 
</verse>
<verse lang="sa" text="A" n="296">
निष्की निष्कशतं शती दशशतं लक्षं सहस्राधिपः

लक्षेशः क्षितिपालतां क्षितिपतिश्श(श्च)केश्वरत्वं गतः ।

श(च)क्रेशः पुनरिन्द्रतां शतमखश्शैवं पदं वाञ्छति

यक्षा(त्र्यक्षो) ब्रह्मपदं स वैष्णवपदं तृष्णावधिं को गतः ॥ २९६॥</verse>
</page>