This page has not been fully proofread.

८२
 
॥ मलयमारुतः ॥.
 
कण्ठादूर्ध्वं विनिर्यान्ति प्राणा याच्याक्षरैस्सह ।
ददामीत्यक्षरैर्दातुः पुनःश्रोत्राद्विशन्ति ते ॥ २८९ ॥
 
मीयतां कथमपीप्सितमेषां दीयतां द्रुतमयाचितमेव ।
तत् (त) धिगस्तु कलयन्नपि वाञ्छाम् अर्थिवागवसरं सहते यः ॥ २०० ॥
 
याचमानज (न) मानसवृत्ते: पूरणाय बत जन्म न यस्य ।
तेन भूमिरतिभारवतीयं न द्रुमैर्न गिरिभिर्न समुद्रैः ॥ २९१ ॥
 
जलधिजलान्ता नद्यः स्त्रीभेदान्तानि बन्धुहृदयानि ।
पिशुनजनान्तं गुह्यं दुष्पुत्रान्तानि सज्जनकुलानि ॥ २९२ ॥
 
अप्रार्थितानि दुःखानि यथैवाऽऽयान्ति देहिनाम् ।
सुखान्यपि तथाऽऽयान्ति दैन्यमत्रातिरिच्यते ॥ २९३ ॥
 
नीचं नमन्ति नियमेन मृषा वदन्ति
 
भारं वहन्ति धनिनां वशगा भवन्ति ।
पूरं तरन्ति जलधेर्वियदुत्पतन्ति
 
प्रादेशकुक्षिपरिपूरणपारवश्यात् ॥ २९४ ॥
 
कृ (तृ ष्णे कृष्णेऽपि ते शक्ति: दु (ह) ष्टा मर्त्येषु का कथा ।
त्रैलोक्य (य) व्यापि यद्रूपं (तद्रूपं वामनीकृतम्) ।॥ २९५ ॥
 
निष्की निष्कशतं शती दशशतं लक्षं सहस्राधिपः
 
लक्षेश: क्षितिपालतां क्षितिपतिश्श (श्च ) केश्वरत्वं गतः ।
श ( च ) केश: पुनरिन्द्रतां शतमखरशैवं पदं वाञ्छति
 
यक्षा (त्र्यक्षो) ब्रह्मपदं स वैष्णवपदं तृष्णावधिं को गतः ॥ २९.६॥