This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa" text="A" n="281">
विद्या विवादाय धनं मदाय प्रज्ञाविशेषः परवञ्चनाय ।

मूर्खस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ॥ २८१ ॥
 
</verse>
<verse lang="sa" text="A" n="282">
त्यागिनां किं विचारेण दोषेष्वपि गुणेष्वपि ।

समं वर्षति पर्जन्यः सस्येष्वपि तृणेष्वपि ॥ २८२ ॥
 
</verse>
<verse lang="sa" text="A" n="283">
वने कलापी गगने च मेघः सरस्सु पद्मं दिवि तिग्मभानुः ।

चन्द्रोऽन्तरिक्षे कुमुदं सरस्यां दूरेऽपि मैत्री खलु सज्जनानाम् ॥ २८३ ॥
 
</verse>
<verse lang="sa" text="A" n="284">
गावो भूयः पशून् पाति(न्ति) रणे भीता नृपानपि ।

तृणमेव परं मन्ये नरादनुपकारिणः ॥ २८४ ॥
 
</verse>
<verse lang="sa" text="A" n="285">
दिशवनहरिणीभ्यो वंशकारण्डवीभ्यः

कबलमुपल(म्) कोटिच्छन्नमूलं कुशानाम् ।

शु(श)कयुवतिकपोलापाण्डुताम्बूलवल्ली-

दलद(म)रुणनखात्रैः पाटिता(तं) वा वधूभ्यः ॥ २८५ ॥
 
</verse>
<verse lang="sa" text="A" n="286">
कर्णौ जनन्यः प्रविशालयेयुः

विशालयेदक्षियुगं च काचित् ।

प्रकाममभ्यस्य तु नाम विद्यां

सौजन्यमभ्यासवशाद(शेन)लभ्यम् ॥ २८६ ॥
 
</verse>
<verse lang="sa" text="A" n="287">
तृणाल्लघुतरस्तूलस्तूलादपि च याचकः ।

वायुना किं न नीतोऽसौ मामयं याचयेदिति ॥ २८७ ॥
 
</verse>
<verse lang="sa" text="A" n="288">
याचना हि पुरुषस्य महत्त्वं नाशयत्यखिलमेव तथा हि ।

सद्य एव भगवानपि विष्णुः वामनो भवति याचितुमिच्छन् ॥ २८८ ॥</verse>
</page>