This page has not been fully proofread.

॥ नराभरणम् ॥
 
विद्या विवादाय धनं मदाय प्रज्ञाविशेषः परवञ्चनाय ।
 
मूर्खस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ॥ २८१ ॥
 
त्यागिनां किं विचारेण दोषेष्वपि गुणेष्वपि ।
 
समं वर्षति पर्जन्यः सस्येष्वपि तृणेष्वपि ॥ २८२ ॥
 
वने कलापी गगने च मेघ: सरस्सु पद्मं दिवि तिग्मभानुः ।
 
चन्द्रोऽन्तरिक्षे कुमुदं सरस्यां दूरेऽपि मैत्री खलु सज्जनानाम् ॥ २८३ ॥
 
गावो भूयः पशून् पाति (न्ति) रणे भीता नृपानपि ।
तृणमेव परं मन्ये नरादनुपकारिणः ॥ २८४ ॥
 
दिश वनहरिणीभ्यो वंशकारण्डवीभ्यः
 
कबलमुपल (म्) कोटिच्छन्नमूलं कुशानाम् ।
 
शु(श) कयुवतिकपोलापाण्डुताम्बूलवल्ली-
दलद(म)रुणनखात्रैः पाटिता(तं) वा वधूभ्यः ॥ २८५ ॥
 
कर्णो जनन्यः प्रविशालयेयुः
 
विशालयेदक्षियुगं च काचित् ।
 
प्रकाममभ्यस्य तु नाम विद्यां
 
सौजन्यमभ्यासवशाद(शेन)लभ्यम् ॥ २८६ ॥
 
८१
 
तृणाल्लघुतरस्तूलस्तूलादपि च याचकः ।
 
वायुना किं न नीतोऽसौ मामयं याचयेदिति ॥ २८७ ॥
 
याचना हि पुरुषस्य महत्त्वं नाशयत्यखिलमेव तथा हि ।
सद्य एव भगवानपि विष्णुः वामनो भवति याचितुमिच्छन् ॥ २८८ ॥
 
11