This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa" text="A" n="273">
न शोभते गुणः पुंसां स्वयं स्वगुणवर्णने ।

यथा सुखं कामिनीनां न स्वयं कुचमर्दने ॥ २७३ ॥
 
</verse>
<verse lang="sa" text="A" n="274">
कोदण्डमिक्षुः कुसुमानि बाणः

मौर्वी च मत्ता मधुपालिरेव ।

तथापि कामोऽप्यरुधत्पुरारिं

विनाशकाले विपरीतबुद्धिः ॥ २७४ ॥
 
</verse>
<verse lang="sa" text="A" n="275">
मातुलो यस्य गोविन्दः पिता यस्य धनञ्जयः ।

अभिमन्युर्वधं प्राप्तः कालस्य कुटिला गतिः ॥ २७५ ॥
 
</verse>
<verse lang="sa" text="A" n="276">
कालस्समविषमकरः कालस्सम्मानपरिभवकरः[^१] ।

कालः करोति पुरुषं दातारं याचितारं च ॥ २७६ ॥
 
</verse>
<verse lang="sa" text="A" n="277">
यथा वृथा दानविहीनसम्पत् यथा वृथा साक्षिविहीनसंसत् ।

यथा वृथा (ज्ञा?)नविहीनधर्मः तथा वृथा वेदविहीनविप्रः ॥ २७७ ॥
 
</verse>
<verse lang="sa" text="A" n="278">
नास्ति विप्रसमं वीर्यं नास्ति व्याधिसमो रिपुः ।

न चापत्यसमः स्निग्धो नास्ति दैवात्परं बलम् ॥ २७८ ॥
 
</verse>
<verse lang="sa" text="A" n="279">
आगतव्ययशीलस्य कृशत्वमतिशोभते ।

द्वितीयश्चन्द्रमा वन्द्यो न वन्द्यः पूर्णचन्द्रमाः ॥ २७९ ॥
 
</verse>
<verse lang="sa" text="A" n="280">
अस्तीत्येव कृषिं कुर्यात् अस्ति नास्तीति वाणिजम् ।

नास्तीत्येव ऋणं दद्यात् नाहमस्मीति साहसम् ॥ २८० ॥
 
</verse>
<ignore lang="sa">
---
 
</ignore>
<footnote lang="sa" text="A" mark="
. ">अत्र वृत्तभङ्गः । 'परिभवसम्मानकारकः कालः' इति क्वचिन्मुद्रिते ग्रन्थे

समीचीनः पाठः ।</footnote>
</page>