This page has not been fully proofread.

८०
 
॥ मलयमारुतः ॥
 
न शोभते गुणः पुंसां स्वयं स्वगुणवर्णने ।
 
यथा सुखं कामिनीनां न स्वयं कुचमर्दने ॥ २७३ ॥
 
कोदण्डमिक्षुः कुसुमानि बाणः
 
मौर्वी च मत्ता मधुपालिरेव ।
 
तथापि कामोऽप्यरुधत्पुरारिं
 
विनाशकाले विपरीतबुद्धिः ॥ २७४ ॥
 
मातुलो यस्य गोविन्दः पिता यस्य धनञ्जयः ।
अभिमन्युर्वधं प्राप्तः कालस्य कुटिला गतिः ॥ २७५ ॥
 
कालस्समविषमकरः कालस्सम्मानपरिभवकरः ।
कालः करोति पुरुषं दातारं याचितारं च ॥ २७६ ॥
 
यथा वृथा दानविहीनसम्पत् यथा वृथा साक्षिविहीनसंसत् ।
 
यथा वृथा (ज्ञा? ) नविहीनधर्मः तथा वृथा वेदविहीनविप्रः ॥ २७७ ॥
 
नास्ति विप्रसमं वीर्यं नास्ति व्याधिसमो रिपुः ।
 
न चापत्यसमः स्निग्धो नास्ति दैवात्परं बलम् ॥ २७८ ॥
 
आगतव्ययशीलस्य कृशत्वमतिशोभते ।
द्वितीयश्चन्द्रमा वन्द्यो न वन्द्यः पूर्णचन्द्रमाः ॥ २७९ ॥
 
अस्तीत्येव कृषि कुर्यात् अस्ति नास्तीति वाणिजम् ।
नास्तीत्येव ऋणं दद्यात् नाहमस्मीति साहसम् ॥ २८० ॥
 
१. अत्र वृत्तभङ्गः । 'परिभवसम्मानकारकः कालः' इति क्वचिन्मुद्रिते ग्रन्थे
समीचीनः पाठः ।